TBD.
चिनोतेः अङ्गस्य सन्लिटोरभ्यासादुत्तरस्य विभाषा कवर्गादेशो भवति। चिचीषति चिकीषति। चिकाय, चिचाय। सन्लिटोः इत्येव, चेचीयते।
TBD.
650 अभ्यासात्परस्य कुत्वं वा स्यात्सनि लिटि च. चिकाय, चिचाय; चिक्ये, चिच्ये. अचैषीत्, अचेष्ट.. स्तृञ् आच्छादने.. 3.. स्तृणोति, स्तृणुते..
355 विभाषा चेः। `चजोः कुघिम्ण्यतो'रित्यतः कुग्रहणमनुवर्तते। `अभ्यासाच्चे'त्यतोऽभ्यासादिति, `सन्लिटोर्जे'रित्यतः संन्लिटोरिति च। तदाह- - अभ्यासादित्यादिना। स्तृञ् आच्छादने इति। अनिट्। लिटि तस्तार। अतुसादौ `ऋतश्च संयोगादेर्गुणः' इति गुणः। वृद्धिविषयेऽपि परत्वादस्य प्रवृत्तिः। तस्तरतुः। ऋदन्तत्वात्थल्यपि नित्यंनेट्। तस्तर्थ।तस्तरिव। तस्तरे तस्तराते तस्तरिते। तस्तरिषे। तस्तरिवहे। स्तर्ता। `ऋद्धनोः स्ये'।स्तरिष्यति। आशीर्लिङि परस्मैपदे यासुटः कित्त्वाद्गुणनिषेधे प्राप्ते आह– गुणोर्तीति गुण इति। तङि आशीर्लिङि स्तृ- षीष्ट इति स्थिते—
310 विभाषा चेः। `चजो'रिति सूत्रात्कुरनुवर्तते, `सन्लिटोर्जे'रित्यतः सन्लिटोरिति च। सन्युदाहरणं चिकीर्षति। चिचीषति। र
TBD.