Table of Contents

<<7-3-58 —- 7-3-60>>

7-3-59 न क्वादेः

प्रथमावृत्तिः

TBD.

काशिका

कवर्गादेः धातोः चजोः कवर्गादेशो न भवति। कूजो वर्तते। खर्जः। गर्जः। कूज्यम् भवता। खर्ज्यम्, गर्ज्यम् भवता।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

695 न क्वादेः। कुः आदिर्यस्येति विग्रहः। `चजो कुः' इत्यनुवर्तते। तदाह- - क्वादेरिति। कवर्गादेरित्यर्थः। वार्तिककारस्त्वित। `चजोः कु घिण्ण्यतोः' इति सूत्रे `निष्ठायामनिटः' इति पूरितम्। तथा च निष्ठायां योऽनिट् तद्धात्ववयवयोश्चजोः कुः' स्याद्धिति ण्यति चेत्यर्थः फलति। तथा `न क्वादे'रिति सूत्रम् `अजिव्रज्योश्चे'ति सूत्रं `यजयाचरुचप्रवचर्चश्चे'त्यत्र याचरुचग्रहणं च न कर्तव्यमिति प्रत्याचख्यावित्यर्थः। किं तत इत्यत आह– तेनेति। सूत्रमते अर्जितर्जिप्रभृतीनां ण्यति कुत्वं स्यात्, `न क्वादेः' इति निषेधस्य तत्राऽप्रवृत्तेरिति भावः। तदेवं सूत्रमतेऽतिव्याप्तिमुक्त्वा अव्याप्तिमाह- - ग्रुचुरग्लुञ्चुप्रभृतीनामिति। तेषां कवर्गादित्वे।ञपि ण्यति ग्रोक्यमित्यादौ कुत्वमिष्टं स्यादेव, वार्तिकमते `न क्वादे'रिति निषेधस्य प्रत्यख्यातत्वात्, सूत्रमते तु `न क्वादे'रिति निषेधात् `ग्रोक्य'मित्यादौ कुत्वमिष्टं स्यादित्यव्याप्तिरित भावः। नन्विदं वार्तिकं विपरीतफलमपि संमतत्वाद्ग्राह्रमेव, विरोधे विकल्पसय् वक्तुं शक्यत्वादिति शङ्कते– सूत्रमते तु यद्यपीति। परिहरति- - तथापीति। यथोत्तरमिति। अयं वैयकारणसमयः।

तत्त्वबोधिनी

576 गज्र्यमिति। गर्ज शब्दे `ऋहलो'रिति ण्यति चजोरिति कुत्वे प्राप्तेऽयं निषेधः। कुत्वं स्यादेवेति। `उदितो वे'ति क्त्वायामिड्विकल्पात् `यस्य विभाषे'ति निष्ठायामनिट्?त्वादिति भावः। विपरीतमिति। सूत्रकारमते ग्रुचुग्लुञ्चुप्रभृतीनां `न क्वादे'रिति कुत्वं न भवति,वार्तिकारमते तु निष्ठायामनिट्त्वात् `चजो'रिति कुत्वं भवतीति परस्परविरद्धमित्यर्थः। यथोत्तरमिति। तथाच वार्तिककानुरोधेन कुत्वं स्वीकर्तव्यमिति भावः।

Satishji's सूत्र-सूचिः

TBD.