TBD.
हिनोतेर् हकरस्य अभ्यासादुत्तरस्य कवर्गादेशो भवति अचङि। प्रजिघीषति। प्रजेघीयते। प्रजिघाय। अचङि इति किम्? प्राजीहयत् दूतम्। अचङि इति शक्यमकर्तुम्। कथम्? चङ्यभ्यासनिमित्ते णौ हिनोतिरङ्गं भवति, तत्र अभ्यासनिमित्ते प्रत्यये हेरङ्गस्य इति विज्ञायमने प्राप्तिरेव न अस्ति? तत् क्रियते ज्ञापकार्थम्। एतत् ज्ञाप्यते, हेरचङि इति चङो ऽन्यत्र हेर्ण्य धिकस्य अपि कुत्वं भवति इति। तेन प्रजिघाययिषति इति सिद्धं भवति।
TBD.
–
361 हेरचङि। `चजोः' इति सूत्रात्कुग्रहणमनुवर्तते। `अभ्यासाच्चे'त्यतोऽभ्यासादिति। `हो हन्ते'रित्यतो ह इति षष्ठ\उfffद्न्तमनुवर्तते। तदाह– अभ्यासात्परस्येति। जिघायेति। जिघ्यतुः। जिघयिथ– जिघेथ। जिघ्यिव। आप्लृ व्याप्तौ। अनिट्। आप्नुवन्तीति। संयोगपूर्वकत्वादेव `उतश्च प्रत्यया'दिति हेर्न लुक्। शक्लृ शक्ताविति। शक्नोति। शशाक। शेकतुः। शशक्थः शेकिथ। शेकिव।शक्ता। शक्ष्यति। अशकदिति। लृदित्त्वादङ्। राध साध संसिद्धौ। अनिटौ। दीर्घाकारवत्त्वात् `अत एकह'लिकत्यप्राप्तावाह–
315 हेरचङि। जेघीयते। अचङीति किम् ?। अजीहयत्। इह ण्यन्तस्य धात्वन्तरत्वात्केवलस्य त्वभ्यासनिमित्तप्रत्ययपरत्वाभावात्कुत्वप्राप्तिरेव नास्तीत्यचङीति निषेधो व्यर्थः सन् ज्ञापयति–ण्यधिकस्यापि कुत्वं भवतीति। तेन जिघापयिषतीत्यादि सिद्धम्। आप्नुहीति। संयोगपूर्वत्वात् `उतश्च प्रत्यया'दिति हेर्लुङ् न।
TBD.