Table of Contents

<<7-3-47 —- 7-3-49>>

7-3-48 अभाषितपुंस्काच् च

प्रथमावृत्तिः

TBD.

काशिका

अभाषितपुंस्काद् विहितस्य आतः स्थाने यो ऽकारः तस्य उदीचाम् आचार्याणां मतेन इकारादेशो न भवति। खट्वका, खट्विका। अखट्वका, अखट्विका। परमखट्वका, परमखट्विका। बहुव्रीहौ यदा कपि ह्रस्वः क्रियते तदा भवितव्यम् अनेन विधिना। अत्र अपि अभाषितपुंस्काद् विहितस्य अतः स्थाने भवत्यकारः इति। यदा तु अविद्यमाना खट्वा अस्याः अखट्वा, अल्पा अखट्वा अखट्विका इति तदा न भवति। तथा अतिक्रान्ता खट्वाम् अतिखट्वा, अल्पा अतिखट्व अतिखट्विका।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

461 अभाषितपुंस्काच्च। `उदीचामातः स्थाने' इत्यनुवर्तते, अत इदिति च। अभाषितः पुमान्येनेति विग्रहः। विहितस्येत्यध्याहार्यम्। तदाह–एतस्मादिति। अभाषितपुंस्कादित्यर्थः। अयकपूर्वार्थं वचनम्। गङ्गका। गङ्गिकेति। गङ्गाशब्दात्कः। `केऽणः' इति ह्यस्वः, इत्त्वविकल्पः। विहितविशेषणस्य फलमाह–बहुव्रीहिरिति। अविद्यमाना खट्वा यस्या इति विग्रहे `नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः' इति बहुव्रीहौ कृते, विद्यमानपदलोपे, नञो नलोपे `शेषाद्विभाषा' इति कबभावपक्षे, `गोस्त्रियोः' इति ह्यस्वे, अखट्वशब्दाट्टापि, सुपि अज्ञातादौ के, सुब्लुकि, `केऽणः' इति ह्यस्वे, पुनष्टापि अभाषितपुंस्काद्विहितस्य आतः स्थाने अतोऽभावान्नेत्त्वविकल्पः। किंतु `प्रत्ययस्था'दिति नित्यमित्त्वमित्यर्थः। `अभाषितपुंस्कात्परस्ये'ति व्याख्याने तु तादृशखट्वशब्दात्परस्य आतः स्थाने अतः सत्त्वादित्त्वविकल्पः स्यादिति भावः। शैषिके कपि त्विति। न स् खट्वा स् इत्यवस्थायां कपि सुब्लुक्। प्रत्ययलक्षणेन भागद्वयस्य सुबन्तत्वात् `नञोऽस्त्यर्थाना'मिति बहुव्रीहिसमासः। `समासान्त' इत्यन्वर्थसंज्ञाबलात्कबन्तस्यैव समासत्वम्। ततश्च अखट्वाकशब्दे अखट्वा इत्यंशस्य उपसर्जनस्त्रीप्रत्ययान्तसमासरूपप्रातिपदिकत्वाऽभावात् `गोस्त्रियोः' इति ह्यस्वो न भवति। नापि `केऽणः' इति ह्यस्वः, `न कपी'ति निषेधात्। किंतु `आपोऽन्यतरस्या'मिति ह्यस्वविकल्पः। तत्र खट्वाशब्दाद्विहितस्य कपः प्राग्वर्तिनष्टापोऽभाषितपुंस्काद्विहितत्वेन तत्स्थानिकह्यस्वाकारस्यायमित्त्वविकल्पो भवत्येवेत्यर्थः। `आपोऽन्यतरस्या'मिति ह्यस्वाऽभावपक्षे तु अखट्लाकेत्येव बोध्यम्।

तत्त्वबोधिनी

415 अभषित। एतस्मादिति। नित्यस्त्रीलिङ्गादित्यर्थः। विहितविशेषणतया व्याख्यानस्य फलमाह—बहुव्रीहेरिति। ततो विहितस्य नित्यमिति। आवेद्यमाना खट्वा यस्याः सा `अखट्वे'त्यत्र `शेषद्विभाषे'ति समासान्तस् कपो वैकल्पिकत्वात्कबभावपक्षे `गोस्त्रियो'रित्युपसर्जनह्यस्वे कृते पुनरखट्वशब्दाद्भाषितपुंस्काट्टापि सत्यज्ञातादौ कप्रत्यये `केष?णः'इति ह्यस्वेऽस्य विकल्पस्याऽप्रवृत्तेः `प्रत्ययस्था'दित्युत्सर्ग एव पर्वर्तते, परविशेषणत्वे त्वयं विकल्पः स्यादेवेति भावः। `बहुव्रीहे'रित्युपसर्जनोपलक्षणं, तेनाऽतिखट्विकेत्यादावपि नित्यमेव। विकल्प एवेति। `अखट्वे'ति बहुव्रकीहौ `न सु खट्वा सु'इति स्थिते `सुपो धातु—'इति सोर्लुक्यपसर्जनह्यस्वत्वं बाधित्वा `शेषाद्विभाषे'ति समासान्ते कपि परत्वात्कृते स्त्रीप्रत्ययान्तत्वाऽभावादुपसर्जनह्यस्वो न प्रवर्तते, किन्तु `केऽणः'इति ह्यस्वस्य `न कपि'आपोऽन्यतरस्या`मिति वैकल्पिकनिषेधात्पाक्षिकह्यस्वे सति `अभाषितपुंस्काच्चे'ति विकल्पः प्रवर्तते। तत्र हि खट्वाशब्दात्परस्य टापोऽभाषितपुंस्काद्विहितत्वादिति भावः। ह्यस्वाऽभावपक्षे त्त्वखट्वाकेत्यतद्रूपान्तरम्।

Satishji's सूत्र-सूचिः

TBD.