Table of Contents

<<7-3-35 —- 7-3-37>>

7-3-36 अर्तिह्वीव्लीरीक्नूयीक्ष्माय्यातां पुग् णौ

प्रथमावृत्तिः

TBD.

काशिका

सर्वं निवृत्तम्, अङ्गस्य इति वर्तते। अर्ति ह्री व्ली री क्नूयी क्ष्मायी इत्येतेषाम् अङ्गानाम् आकारान्तानां च पुगागमो भवति णौ परतः। अर्ति अर्पयति। ह्री ह्रेपयति। व्ली व्लेपयति। री रेपयति। क्नूयी क्नोपयति। क्ष्मायी क्ष्माप्यति। आकारान्तानाम् दापयति। धापयति। अर्ति इति ऋ गतिप्रापणयोः, ऋ गतौ इति द्वयोरपि धात्वोर् ग्रहणम्। री इत्यपि री गतिरेषणयोः, रीङ् श्रवणे इति। पुकः पूर्वान्तकरणम् अदीदपतित्यत्र उपधाह्रस्वो यथा स्यातिति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

705 स्थापयति..

बालमनोरमा

398 अर्ति ह्यी व्ली री क्नूयी क्ष्मायी आत् एषां द्वन्द्वात्षष्ठी। `पुक् णौ' इति छेदः। तदाह – एषां पुक्स्याण्णौ इति। पुकि ककार इत्, उकार उच्चारणार्थः। कित्त्वादन्तावयवः। चाप् इ इति स्थिते चेत्यनुवर्त्त्य मित्त्वस्याऽनुकर्षणेन मित्त्वाद्ध्रस्वे `चपी'त्यस्मात्तिबादौ परिनिष्ठितमाह – चपयतीति। आत्त्वाऽभावपक्षे त्वाह – चययतीति। चेर्णिचि वृद्धौ आयादेशे मित्त्वादुपधाह्यस्व इति भावः। ननु चिञ्धातोरिह ञित्करणं व्यर्थम्, ण्यन्ताण्णिचश्चेत्येव उभयपदसिद्धेः। चौरादिकस्याऽस्य नित्यं ण्यन्तत्वेन चयति चयते इति केवलस्याऽण्यन्तस्य शशशृङ्गायमाणत्वदित्यताअह – ञित्करणसामथ्र्यादिति। एवं च णिजभावपक्षे उभयपदार्थमिह ञित्करणमर्थवदिति भावः। `शेषे विभाषाऽकखादौ' इति णत्वनविकल्पं मत्वा आह– प्रणिचयति प्रनिचयति इति। `नान्ये मितोऽहेतौ' इति। चुरादिगणसूत्रम्। अहेताबिति च्छेदः। किमपेक्षया अन्ये इत्याकाङ्क्षायां मितः प्राक् पठितज्ञपादिचिञन्तेभ्य इति लभ्यते। तदाह – अहेतौ स्वार्थं णिचीत्यादिना। अहेतावित्यस्य व्याख्यानं– स्वार्थे णिचीति। तेनेति। ज्ञपादिचिञन्तव्यतिरिक्तचुरादीनां मित्त्वनिषेधेनेत्यर्थः। शमादीनामिति। `शम आलोचने' `अम रोगे'इत्यादीनामग्रे चुरादौ पठिष्यमाणानामित्यर्थः। अमन्तत्वेति। `जनीजृष्क्नसुरञ्जौऽमन्ताश्चे'त्यमन्तत्वनिमित्तकमित्यर्थ-। कृ?त संशब्दने।

तत्त्वबोधिनी

347 अर्तिह्यी। परत्वादन्तरङ्गत्वाच्च आदौ पुक्, पश्चाद्गुणः। अर्पयति। ह्येपयति। व्लेपयति। रेपयति। यलोपः। क्नोपयति। क्ष्मपयति। स्थापयति। चपयतीति। वर्णग्रहणे लक्षणप्रतिपदोक्तपरिभाषा न प्रवर्तते, `आतोऽनुपसर्गे' इति कबाधनाय `ह्वावामश्चे'त्यारम्भादिति भावः। ज्ञपादिभ्य इति। मुख्यमते पञ्च ज्ञपादयः। मतान्तरे तु सप्त पूर्ण इत्येके। पुणेत्यन्ये इति। ईदृशेषु पाठशुद्धिनिर्णेतुमशक्या। अत एव क्षीरस्वामिनोक्तम्?–`पाठेऽर्थे चागमभ्रंशान्महतामपि मोहतः। नविद्मः किं जहीमोऽत्र किमुपादद्महे वयम्'। इति। पूलपूर्णादिषु पाठे भ्रंशः। पजधातोर्मार्गसंस्कारोऽर्थ उत संस्कार एवेत्यर्थे भ्रंशः। आगमभ्रंशात्—शास्त्रभ्रंशात्। चूर्ण संकोवने। प्रेरणे पठितस्य पुनः पाठोऽर्थभेदकृतः। मर्च चेति। क्वचिद्धातुपाठेऽस्याऽदृष्टत्वेऽपि नाऽयम प्रामाणिक इति मन्तव्यम्। `मिदचोऽन्त्यात्परः' इति सूत्रे कैयटेनाऽस्योपन्यस्तत्वात्। `मर्तो मर्तं मर्चयति द्वयेने'ति प्रयोगदर्शनाच्च।

Satishji's सूत्र-सूचिः

TBD.