TBD.
जनि वधि इत्येतयोः चिणि कृति च ञ्णिति यदुक्तं तन् न भवति। अजनि। जनकः। प्रजनः। अवधि। वधकः। वधः। वधिः प्रकृत्यन्तरं व्यञ्जनान्तो ऽस्ति, तस्य अयं प्रतिषेधो विधीयते। भक्षकश्चेन्न विद्येत वधको ऽपि न विद्यते इति हि प्रयोगो दृश्यते। वधादेशस्य अदन्तत्वादेव वृद्धेरभावः। चिण्कृतोः इत्येव, जजान गर्भ महिमानमिन्द्रम्।
TBD.
645 अनयोरुपधाया वृद्धिर्न स्याच्चिणि ञ्णिति कृति च. अजनि, अजनिष्ट.. दीपी दीप्तौ.. 20.. दीप्यते. दिदीपे. अदीपि, अदीपिष्ट.. पद गतौ.. 21.. पद्यते. पेदे. पत्ता. पत्सीष्ट..
341 जनीवध्योश्च। `अत उपधायाः' इत्यत उपधाया इति, `मृजेर्वृद्धि'रित्यतो वृद्धिरिति, `नोदात्तोपदेशस्ये'त्यतो नेति, `आतो यु'गित्यतश्चिणकृतोरिति, `अचो ञ्णिती'त्यतो ञ्णितीति चानुवर्तते। तदाह–अनयोरिति। दीपीधातुरीदित्।`दीपजने'ति च्लेश्चिण्विकल्पं मत्वाह—अदीपि अदीपिष्टेति। पूरीधातुरपि ईदित्। `दीपजने'ति चिण्विकल्पं मत्वाह– अपूरि अपूरिष्टेति।तूरी इत्यादयोऽपि `चूरी दाहे' इत्यन्ता ईदित एव।तप ऐ\उfffदार्ये वेति। `श्यन् आत्मनेपदं चे'ति शेषः। उभयोः प्रकृतत्वादित्यभिप्रेत्य शेषं पूरयति–श्यनं तङं चेति। अन्यदा त्विति। ऐ\उfffदार्यादन्यार्थे वृत्तिदशायामित्यर्थः। केचित्त्विति। `तप ऐ\उfffदार्ये' `वावृतु वरणे' इति धातुपाठे स्थितम्। तत्र `वावृतु वरणे' इत्येवं वाशब्दं वृतु इत्यस्य आद्यवयवमिच्छन्तीत्यर्थः। एवं च `तप ऐ\उfffदार्ये' इत्येव स्थितम्। अस्मिन्पक्षेतपधातोर्नित्यमेव श्यन् तङ् चेति भावः। तप्यते इति। ईष्टे इत्यर्थः। प्रथमपक्षे ऐ\उfffदार्ये तपतीत्यपि भवति। पत इतीति। तपधातोस्तकारपकारयोः क्रमव्यत्यासेन `पत ऐ\उfffदार्ये वा' इति पाठान्तरमित्यर्थः। एवं व्यत्यासेन पाठे प्रयोगं दर्शयति–द्युतद्यामा नियुत इति। प्रवायुमच्छा बृतीत्यृच एकदेशोऽयम्। `पत्यमान' इत्यस्य ईशान इत्यर्थः। अत्र लटः शानजात्मनेपदं श्यन् च। पक्षान्तरे इति। `वावृतु' इति पाठपक्षे इत्यर्थः। वावृत्यते इति। वृणोतीत्यर्थः। अपेक्षते इति यावत्। वावृतुधातोः प्रयोगं दर्शयति– ततोवावृत्यमानेति। अपेक्षमाणेत्यर्थः।न्यविवक्षतेति।`नेर्विशः ' इत्यात्मनेपदम्। `शल इगुपधा'दिति क्सः। अथ पञ्च स्वरितेत इति। `शप आक्रोसे' इत्यन्ता इत्यर्थः। शुच्यतीति। क्लिन्नं भवतीत्यर्थः। अशुचदिति। इरित्त्वादङिति भावः। णह बन्धने इति। णोपदेशोऽयम्। अनिट्। ननाहेति। नेहतुः। भारद्वाजनियमात्थलि वेडिति मत्वाह– नेहिथ ननद्धेति। इट्पक्षे `थलि चे सेटी'त्येत्त्वाभ्यासलोपौ। इडभावे तु `नहो धः' इति हस्य ध इति भावः। रञ्ज रागे। अनिट्। रज्यतीति। `अनिदिता'मिति नलोप इति भावः। ररञ्ज ररञ्जतुः। ररञ्जिथ- ररङ्क्थ। ररञ्जिव। रङ्क्ता इत्यादि। अथैकादशेति। `लिश अल्पीभावे' इत्यन्ता इत्यर्थः। पद गतौ। अनिट्।
298 ञिति णिति कृति चेति। ञिति कृत्युदाहरणं घञि– जनः। णिति कृति तु – जनकः। जनयतीत्यत्रोपधावृद्धौ सत्यां `जनीजृ?'षिति मित्त्वात् `मितां ह्यस्वः' इति ह्यस्वः। रदीपी दीप्तौ। ईदत्त्वान्निष्ठायामिण्न। दीप्तः। एं पूरीत्यादेरीदित्त्वात्पूर्ण इत्यादि ज्ञेयम्। केचित्त्विति। तेषां मते ऐ\उfffदार्ये तप्यते इत्येव प्रयोगो न तु तपतीति। न्यविक्षतेति। निपूर्वाद्विशतेर्लुङि `शल इगुपधे'ति क्सः। `नेर्विशः' इति तङ्। वाशृ शब्दे। `मन्दिवाशी'त्युरच्। वाशुरा रात्रिः। तितिक्षायामिति। `गुप्तिज्किद्भ्यः' इति सन्। तत्र हि `तिजे क्षमाया'मित्युक्तम्। ई शुचिर्। ईदित्त्वान्नेट्। शुक्तम्। क्लिन्नमित्यर्थः। ननद्धेति। `नहो धः' इति धत्वम्।
वृत्ति: अनयोरुपधाया वृद्धिर्न स्याच्चिणि ञ्णिति कृति च । There is no वृद्धिः substitute in place of the penultimate vowel of √जन् (जनीँ प्रादुर्भावे ४. ४४) or √वध् when followed by the affix चिण् or a कृत् affix which is either ञित् (has ञकार: as a इत्) or णित् (has णकार: as a इत्)। Note: The substitute “वध” (which comes in place of हन् by 2-4-43 लुङि च) is not being referred to in this सूत्रम्। The reason being “वध” ends in a अकारः and hence due to 1-1-57, we cannot apply 7-2-116 anyway. There is no need for 7-3-35 in the case of “वध”। This सूत्रम् refers to a verbal root √वध् assumed to be in the भ्वादि-गणः।
Example continued from 3-1-61
जन् + इ + त Note: 7-3-35 stops 7-2-116
= जन् + इ 6-4-104, 1-1-61
= अट् जनि 6-4-71, 1-1-46
= अजनि 1-3-3, 1-3-9
“चिण्”-अभावे
जन् + लुँङ् 3-2-110
= जन् + ल् 1-3-2, 1-3-3, 1-3-9
= जन् + त 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-12
= जन् + च्लि + त 3-1-43
= जन् + सिँच् + त 3-1-44
= जन् + स् + त 1-3-2, 1-3-3, 1-3-9
= जन् + इट् स् + त 7-2-35, 1-1-46
= जन् + इ स् + त 1-3-3, 1-3-9
= अट् जन् + इ स् + त 6-4-71, 1-1-46
= अ जन् + इ स् + त 1-3-3, 1-3-9
= अ जन् + इ ष् + त 8-3-59
= अजनिष्ट 8-4-41