Table of Contents

<<7-3-33 —- 7-3-35>>

7-3-34 न उदात्तौपदेशस्य मान्तस्य अनाचमेः

प्रथमावृत्तिः

TBD.

काशिका

उदात्तोपदेशस्य मान्तस्य अनाचमेः

7-3-34 । उदातोपदेशस्य मान्तस्य अङ्गस्य

आचमिवर्जितस्य चिणि कृति च ञ्णिति यदुक्तं तन् न भवति। किं च उक्तम्? अत उपधायाः 7-2-116 इति वृद्धिः। अशमि। अतमि। अदमि। कृति खल्वपि शमकः। तमकः। दमकः। शमः। तमः। दमः। उदात्तोपदेशस्य इति किम्? यामकः। रामकः। कथम् उद्यमोपरमौ? अड उद्यमे, यम उपरमे इति निपातनादनुगन्तव्यौ। उपदेशग्रहणम् किम्? शमी, दमी, तमी इत्यत्र यथा स्यात्, इह मा भूत्, यामकः, रामकः इति। मान्तस्य इति किम्? चारकः। पाठकः। अनाचमेः इति किम्? आचामकः। अनाचमिकमिवमीनाम् इति वक्तव्यम्। आचामः। कामः। वामः। आमः इति चौरादिकस्य णिचि वृद्धौ सत्यां भवति। तत्र हि मित्त्वं न अस्ति न अन्ये मितो ऽहेतौ इति। सूर्यविश्रामा भूमिः इत्येवम् आदिकं प्रयोगमन्याय्यम् एव मन्यन्ते। चिण्कृतोः इत्येव, शशाम। तताम।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

588 नोदात्तोपदेशस्य। `मृजेर्वृद्धि'रित्यतो वृद्धिरिति, `अत उपधायाः' इत्यत उपधाया इति, `अचो ञ्णिती'त्यतो ञ्णितीति, `आतो युक्' इत्यततश्चिण्णकृतोरिति चानुवर्तते। तत्र णितीति कृतएव विशेषणं, न तु चिणः, अव्यभिचारात्। तदाह– उपधाया इत्यादिना। अनुदात्तोपदेशाः - सङ्गृहीताः। ततोऽन्यः सर्वोऽपि धातुरुदात्तोपदेशः। आङ्पूर्वश्चमिराचमिः, तद्वर्जस्येत्यर्थः। अशमि अदमीति। शमधातोर्दमधातोश्च लुङि चिणि `अत उपधायाः' इति वृद्धिर्न। अगामीति। गमेरनुदात्तोपदेशत्वादिति भावः। अवादीति। वदधातुर्न मान्त इति भावः। आचामीति। `अनाचमे'रित्युक्तेरिह नोपधावृद्धिनिषेधः। अनाचमिकमिवमीनामिति. आचामिकमिवमिवर्जानामित्यर्थः। एवं च कमिवम्योरपि न निषेध इति फलितम्। ननु कर्मेर्णिङन्तत्वात्केवलस्य तस्य चिणादौ प्रयोग एव नास्तीत्यत आह– चिण्यायादय इति। णिङणिचोरप्येवमिति। णिङन्ताण्णिजन्ताद्वा कमेश्चिणि णिलोपे सति पूर्ववद्रूपं शिष्यते इत्यर्थः। ननु `जनिवध्योश्चे'ति वधेरुपधावृद्धिनिषेधो व्यर्थः, वधादेशस्याऽदन्ततया अल्लोपस्य स्थानिवत्त्वादेव अवधीत्यादौ उपधावृद्ध्यभावसिद्धेरित्याशङ्क्य वधर्धात्वन्तरं हलन्तमेव `जनिवध्योश्चे'त्यत्र गृह्रत इत्यभ#इप्रेत्य आह— वध हिंसायां हलन्त इति।

तत्त्वबोधिनी

484 नोदात्तोपदेशस्य। ञिति कृति–शमः। दमः। घञ्। णिति कृति शमकः। दमकः। ण्वुल्। उपदेशैति किम् ?। शमी।दमी। इह घिनुणि कृते वज्र्यमानस्वरेण उदात्तत्वाऽभावान्निषेधो न स्यात्। कथं तर्हि `हरेर्यदक्रामि पदैककेन खमिति श्रीहर्षप्रयोग इतिचेत्। अत्राहुः– निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिचि ततश्चिण् बोध्यः। तथा च णिचोऽकृत्त्वाद्वृद्धेर्न निषेधः। `मिता'मिति ह्यस्वस्तु न भवति, `वा चित्तविरागे' इत्यतो वेत्यनुवत्र्य व्यवस्थितविभाषाश्रयणादिति घटादावुक्तत्वात्। किं च ह्यस्वे जातेऽपि न क्षतिः, `चिण्णमुलो'रिति दीर्घविकल्पनादिति। कथमड उद्यमे यम उपरमे इति प्रयोगः ?। संज्ञापूर्वकविधेरनित्यवाद्वृरद्ध्यभाव इति ज्ञेम्। अथवा उद्यमोपरमशब्दौ घञर्थे कविधानाद्बोध्यौ। णिङूणिचोरप्येवमिति। णिङन्ताण्णिजन्ताद्वा कमश्चिणि `णेरनिटी'ति णिलोपे सति रूपं तुल्यमिति भावः।

Satishji's सूत्र-सूचिः

वृत्ति: उपधाया वृद्धिर्न स्याच्चिणि ञिति णिति कृति च । There is no वृद्धिः substitute in place of the penultimate vowel of a verbal root (with the exception of the verbal root √चम् (चमुँ अदने १. ५४०) with the उपसर्गः “आङ्”) which is उदात्तोपदेशः and ends in a मकारः when followed by the affix चिण् or a कृत् affix which is either ञित् (has ञकार: as a इत्) or णित् (has णकार: as a इत्)।

उदाहरणम् – अशमि derived from √शम् (शमुँ उपशमे ४. ९८). विवक्षा is लुँङ्, भावे प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

शम् + लुँङ् 3-2-110
= शम् + ल् 1-3-2, 1-3-3, 1-3-9
= शम् + त 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-13
= शम् + च्लि + त 3-1-43
= शम् + चिण् + त 3-1-66
= शम् + इ + त 1-3-3, 1-3-7, 1-3-9. Note: 7-3-34 stops 7-2-116
= शम् + इ 6-4-104, 1-1-61
= अट् शमि 6-4-71, 1-1-46
= अशमि 1-3-3, 1-3-9

उदाहरणम् – अशमि/अशामि is a causative form derived from √शम् (शमुँ उपशमे ४. ९८). विवक्षा is लुँङ्, कर्मणि प्रयोगः (हेतुमति), प्रथम-पुरुषः, एकवचनम्।
शम् + णिच् 3-1-26
= शाम् + णिच् 7-2-116
= शम् + णिच् 6-4-92. Note: √शम् is a मित् as per the गण-सूत्रम् – जनीजॄष्क्नसुरञ्जोऽमन्ताश्च।
= शम् + इ 1-3-3, 1-3-7, 1-3-9
= शमि । “शमि” gets धातु-सञ्ज्ञा by 3-1-32

शमि + लुँङ् 3-2-110
= शमि + ल् 1-3-2, 1-3-3, 1-3-9
= शमि + त 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-13
= शमि + च्लि + त 3-1-43
= शमि + चिण् + त 3-1-66
= शमि + इ + त 1-3-3, 1-3-7, 1-3-9
= शमि + इ 6-4-104, 1-1-61
= शमि/शामि + इ 6-4-93
= शम्/शाम् + इ 6-4-51
= अट् शमि/शामि 6-4-71, 1-1-46
= अशमि/अशामि 1-3-3, 1-3-9