Table of Contents

<<7-3-30 —- 7-3-32>>

7-3-31 यथातथयथापुरयोः पर्यायेण

प्रथमावृत्तिः

TBD.

काशिका

यथातथ यथापुर इत्येतयोः नञः उत्तरयोः पर्यायेण अचमादेरचः वृद्धिर् भवति तद्धिते ञिति, णिति, किति च परतः। आयथातथ्यम्, अयाथातथ्यम्। आयथापुर्यम् अयाथापुर्यम्। अयथातथ अय्थापुर इति ब्राह्मणादिषु नञ्समासौ एतौ द्रष्टव्यौ। सूत्रे यथातथायथापुरशब्दौ तु यथा ऽसादृश्ये 2-1-7 इति अव्ययीभावसमासौ। तथा नपुंसकाश्रयं ह्रस्वत्वं कृतम्। भास्ये तु यथादर्शित अयथातथाभावः इति तथा सुप्सुपेति समासो लक्ष्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1766 तयोः ष्यञि आदिवृद्धौ विशेषमाह–यथातथायथापुरयोः। आदिवृद्धिप्रकरणे उत्तरपदस्य पूर्वस्य चेत्यधिकारे इदं सूत्रम्। `नञः शुची'त्यतो नञ इत्यनुवर्तते। तदाह–नञः परयोरेतयोरिति। यथातथा यथापुर इत्यनयोरित्यर्थः। पर्यायेणेति। कदाचित्पूर्वपदस्य, कदाचिदुत्तरपदस्येत्यर्थः। आयथातथ्यमिति। यथातथेति निपातनात्ष्यञि पूर्वपदस्यादिवृद्धिः। अयाथातथ्यमिति। उत्तरपदस्यादिवृद्धिः। आयथापुर्यमिति। यथापुरशब्दात्ष्यञि पूर्वपदस्यादिवृद्धिः। अयाथापुर्यमिति। उत्तरपदस्यादिवृद्धिः। आ पदासमाप्तेरिति। अत्र व्याख्यानमेव शरणम्।

सर्ववेदा इति। `पूर्वकाल' इति समासः। लुगिति। `अध्येतृप्रत्ययस्ये'ति शेषः। स एव सार्ववैद्य इति। सर्ववेदशब्दात्स्वार्थे ष्यञिति भावः। वार्तिकमिदम्। `ष्य'ञिति शेषः। चतुर्वेद इति। `तद्धितार्थ' इति द्विगुः। ततोऽध्येतृप्रत्ययस्याऽणो `द्विगोर्लुगनपत्ये'[ इति लुक्। चतुर्विद्यस्येतीति। `चतुर्वेदस्योभयपदवृद्धिश्चे'ति वार्तिके चतुर्वेदस्येत्यस्य स्थाने चतुर्विद्यस्येति केचित्पठिन्तीत्यर्थः। चतरुआओ विद्या अधीते इत्यर्थे `तद्धितार्थ' इति द्विगौ `विद्यालक्षणकल्पान्ताच्चे'ति ठकि `द्विगोर्लुगनपत्ये' इति तस्य लुकि चतुर्विद्यशब्दात्स्वार्थे ष्यञि उभयपदवृद्धौ `चातुर्वैद्य' इति रूपमिति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.