TBD.
नञः उत्तरेषां शुचि ईश्वर क्षेत्रज्ञ कुशल निपुण इत्येतेषाम् अचामादेरचः वृद्धिर् भवति, पूर्वपदस्य वा भवति तद्धिते ञिति, णिति, किति च परतः। शुचि अशौचम्, आशौचम्। ईश्वर अनैश्वर्यम्, आनैश्वर्यम्। क्षेत्रज्ञ अक्षैत्रज्ञ्यम्, आक्षैत्रज्ञयम्। कुशल अकौशलम्, आकौशलम्। निपुण अनैपुणम्, आनैपुणम्। अत्र केचिदाहुः इयं पूर्वपदस्य वृद्धिरप्राप्तैव विभाषा विधीयते। न नञ्पूर्वात् तत्पुरुषातित्युत्तरो भावप्रत्ययः प्रतिषिध्यते। तत्र शुच्यादिभ्यः एव प्रत्यये कृते पश्चान्नञ्समासे सति वृद्धिरनङ्गस्यापि वचनात् भवति इति। तदपरे न मृष्यन्ते। भाववचनादन्योपि हि तद्धितो वृद्धिनिमित्तमपत्यादिषु अर्थेषु नञ्समासादेव विद्यते। बहुव्रीहेश्च नञ्समासात् भाववचनो ऽपि अस्ति, तत्र अङ्गाधिकारोपमर्दनं न युज्यते इति। अक्षेत्रज्ञानीश्वरौ तत्पुरुषौ एव ब्राह्मणादिषु पठ्येते, ततः ताभ्यां भावे ष्यञ् भवति।
TBD.
–
–
–
TBD.