Table of Contents

<<7-3-24 —- 7-3-26>>

7-3-25 जङ्गलधेनुवलजान्तस्य विभाषितम् उत्तरम्

प्रथमावृत्तिः

TBD.

काशिका

जङ्गल धेनु वलज इत्येवम् अन्तस्य अङ्गस्य पूर्वपदस्य अचामादेरचो वृद्धिर् भवति, विभाषितम् उत्तरम् उत्तरपदस्य विभाषा भवति तद्धिते ञिति, णिति, किति च परतः। कुरुजङ्गलेषु भवम् कौरुजङ्गलम्, अकुरुजाङ्गलम्। वैश्वधेनवम्, वैश्वधैनवम्। सौवर्णवलजः, सौवर्णवालजः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1411 जङ्गलदेनु। जङ्गलाद्यन्तस्याङ्गस्येति। जङ्गल, धेनु वलज इत्यन्तस्येत्यर्थः। कुरुजङ्गले इति। `भव'मिति शेषः। कुरुजङ्गलादिशब्दा देशविशेषेषु।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.