Table of Contents

<<4-2-3 —- 4-2-5>>

4-2-4 लुबविशेषे

प्रथमावृत्तिः

TBD.

काशिका

पूर्वेण विहितस्य प्रत्ययस्य लुब् भवति अविशेषे। न चेन् नक्षत्रयुक्तस्य कालस्य रात्र्यादिविशेषो ऽभिधीयते। यावन् काले नक्षत्रेण युज्यते अहोरात्रः, तस्य अविशेषे लुब् भवति। अद्य पुष्यः। अद्य कृत्तिकाः। अविशेषे इति किम्? पौषी रात्रिः। पौषमहः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1038 पूर्वेण विहितस्य लुप् स्यात् षष्टिदण्डात्मकस्य कालस्यावान्तरविशेषश्चेन्न गम्यते. अद्य पुष्यः..

बालमनोरमा

1187 लुबविशेषे। षष्ठिदण्डेति। षष्टिघटिकापरिच्छिन्ने काले एकैकस्मिन्नेकैकेन नक्षत्रेण चन्द्रमा युज्यत इति स्थितिः। तस्य षष्टिदण्डस्य कालस्य अवान्तरविशेषोऽहर्वा रात्रिर्वेति न गम्यते चेदित्यर्थः। अद्य पुष्य इति। अद्येत्यव्ययम् अहोरात्रवाचि अधिकरणशक्तिप्रधानम्, इह तु अधिकरणशक्तिविनिर्मुक्तोऽहोरात्रकालो विवक्षितः। तथाच अयमहोरात्रः पुष्ययुक्तचन्द्रमसा युक्त इत्यर्थः। अहर्वा रात्रिर्वेति विशेषानवगमादणो लुप्। कथं तर्हीति। पौर्णमस्याः षष्टिदण्डात्मिकाया अवान्तरविशेषानवगमादिह लुप् स्यादित्याक्षेपः। समाधत्ते–विभाषेति। फाल्गुनीकार्तिकीचैत्रीशब्दानां नक्षत्राऽण्विशिष्टानां पौर्णमास्यां प्रयोगदर्शनेन पौर्णमास्यां नक्षत्रयुक्तायां `लुबंभावात्कथं श्रणणेति निर्देश इत्यत आह–श्रवणशब्दात्त्वत एव लुबिति। `श्रवणे'ति निपातनादेव पौर्णमास्यां लुबित्यर्थः। ननु `कृत्तिका श्रवणः पुष्यः चित्रास्वात्योर्यदन्तर'मित्यादौ श्रवणशब्दस्य पुंलिङ्गत्वदर्शनेन तस्मादणो लिपि कृते `लुपि युक्तवद्व्यक्तिवचने' इति पुंलिङ्गत्वावश्यंभावाच्छ्रवणेति कथं स्त्रीलिङ्गतेत्यत आह–युक्तवद्भावाभावश्चेति। `निपातना'दिति शेषः। ननु तर्हि श्रावणीति नैव स्यादित्यत आह–अबाधकान्यपीति। इयं परिभाषा वृत्तौ स्थिता। सर्वादिसूत्रभाष्ये तु `बाधकान्येव निपातनानी'त्युक्तम्।

तत्त्वबोधिनी

983 लुबवि [शेषे]। पूर्वसूत्रस्यानुवर्तनादिह `नक्षत्रेण युक्तस्य कालस्याऽविशेषे गम्ये'इत्यर्थ उपलभ्यते, तदाह–षष्टिदण्डेति। `अद्य पुष्यः'इत्युक्त्या`न ह्रो, न \उfffदाः'इति विशेषे गम्यमानेऽपि अहोरात्रात्मककालस्यावान्तरविशेषानवगमाल्लुब्भवत्येवेति भावः। `अविशेषे'इत्यत्र प्रसज्यप्रतिषेधाश्रयणात् `पौषोऽहोरात्रः'इत्यत्र लुब्न भवति, षष्टिदण्डात्मकसमुदायरूपकालस्य प्रतीतावप्यवयवद्वयात्मकस्यापि विशेषस्यापि प्रतीतेरित्याशयेनाह—विशेषश्चेन्नेति। अद्य पुष्य इति।स `मूलेनावाहयेद्देवीं श्रवणेने'त्यप्युदाहरणं बोध्यम्।

Satishji's सूत्र-सूचिः

TBD.