Table of Contents

<<7-2-94 —- 7-2-96>>

7-2-95 तुभ्यमह्यौ ङयि

प्रथमावृत्तिः

TBD.

काशिका

युष्मदस्मदोः मपर्यन्तस्य तुभ्य मह्य इत्येतावादेशुअ भवतो ङयि परतः। तुभ्यम्। मह्यम्। परमतुभ्यम्। परममह्यम्। अतितुभ्यम्। अतिमह्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

324 अनयोर्मपर्यन्तस्य. टिलोपः. तुभ्यम्. मह्यम्..

बालमनोरमा

तुभ्यमह्रौ ङयि। `ङे' इत्यस्य सप्तम्येकवचने ङयीति। `युष्मदस्मदोरनादेशे' इत्यतो युष्मदस्मदोरित्यनुवर्तते। मपर्यन्तस्येत्यधिकृतम्। तदाह–अनयोरिति। युष्मदस्मदोरित्यर्थः। अमादेश इति। `ङे प्रथमयोरित्यनेने'ति शेषः। शेषे लोप इति। अदो दस्य वा लोप इत्यर्थः। `अमि पूर्वः' इति मत्वाह–तुभ्यं मह्रमिति। परमतुभ्यमिति। तुभ्यमहृविध्योराङ्गत्वात्तदन्तेऽपि प्रवृत्तिरिति भावः। अतितुभ्यमिति। गौणत्वे तदप्रवृत्तौ मानाऽभावादिति भावः। युवाभ्याम् आवाभ्यामिति। तृतीयाद्विवचनवदिति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.