Table of Contents

<<7-2-60 —- 7-2-62>>

7-2-61 अचस् तास्वत् थल्यनिटो नित्यम्

प्रथमावृत्तिः

TBD.

काशिका

तासौ ये नित्यानिटो धातवः अजन्ताः, तेभ्यस्तासाविव थलि इडागमो न भवति। याता ययाथ। चेता चिचेथ। नेता निनेथ। होता जुहोथ। अचः इति किम्? भेत्ता बिभेदिथ। तास्वतिति किम्? लूत्वा लुलविथ। थलि इति किम्? याता ययिव। ययिम। अनिड्ग्रहणं नित्यम् इत्यनेन विशेषणार्थम्। नित्यग्रहणं किम्? विधोता, विधविता विदुधविथ। तासि विभाषितेट्, थलि नित्यम् इडागमो भवति। तास्वतिति वतिनिर्देशः किमर्थः? तासौ ततस्थलि प्रतिषेधार्थः। यो हि तासावसन्, असत्त्वाच् च नित्यानिट्, तस्य थलि प्रतिषेधो न भवति। जघसिथ। उवयिथ। उत्तरसूत्रे ऽपि तास्वदिति वर्तते। अदादेशो हि घसिः, वेञादेशश्च वयिस्तासौ न अस्ति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

482 उपदेशेऽजन्तो यो धातुस्तासौ नित्यानिट् ततस्थल इण्न..

बालमनोरमा

137 अत तस्य थलीडागमस्य भारद्वाजनियमाद्विकल्पं वक्ष्यस्तदुपयोगत्वेन सूत्रद्वयमुपन्यस्यति—अचस्तास्वत्। अधातोस्थलोऽभावाद्धातोरिति लभ्यते। `अच ' इति तद्विशेषणम्। तदन्तविधिः। `उपदेशेऽत्वत' इत्युत्तरसूत्रादुपदेश इत्यपकृष्यत इति `ऋतो भारद्वाजस्ये'ति सूत्रभाष्ये स्थितम्। उपदेशे अजन्तादित्यन्वयः। `अनिट' इति बहुव्रीहेः पञ्चमी। नित्यमिड्विहीनादित्यन्वयः। `तासि च क्लृप' इत्यतस्तासीत्यनुवर्तते। तासौ नित्यमनिट इत्यन्वयः। थलीति षष्ठ\उfffद्र्थे सप्तमी। `गमेरिट् परस्मैपदेष्वि'त्यत इडिति, `न वृद्भ्यश्चतुभ्र्य' इत्यतो नेति चानुवर्तते। `तास्व'दिति सप्तम्यान्तद्वतिः। तदाह–उपदेशे योऽजन्त इत्यादि, इण्न स्यादित्यन्तम्। `तास्व'– दिति सेषः। यथा तासि नेट् तथा थल्यपि नेडित्यर्थः। चिचेथ जुहोथेत्याद्युदाहरणम्। अत्र क्रादिनियमप्राप्त इण्न भवति। अजन्तात्किम् ?। बिभेदिथ। उपदेश इति किम् ?। `ह्मञ्' जहर्थ। इह गुणे रपरत्वेऽजन्तत्वाऽभावादिण्निषेधो न स्यादित्युपदेशग्रहणम्। नित्यग्रहणं किम् ?। `स्वृ गतौ' सस्वरिथ। `स्वरितसूती'ति तासौ विकल्पितेट्कत्वान्न निषेधः। तासौ किम् ?। लूत्वा लुलविथ। थलः किम् ?।पपिव पिम। इह तासीत्यनुव#ऋत्त्यैव सिद्धेः `तास्व'दिति नातीवोपयुज्यत इति केचित्। वस्तुतस्तु यस्तासौ विद्यते तस्मादेव परस्य थल इण्निषेधार्थ तास्वदित्यावश्यकम्। तेन `लिट\उfffज्ञतरस्या'मित्यदो घस्लृभावे जघसिथेत्यत्र न निषेधः, घसस्तासावभावादति–अद भक्षम इति धातौ मूल एव वक्ष्यते। `यस्तासावस्ति अनिट् चे'ति भाष्यम्। एव वेञो वयादेशेऽपि न निषेध ति बोध्यम्।

तत्त्वबोधिनी

112 अचस्तास्वत्। उत्तरसूत्रादुपदेश इत्यपकृष्यते, तच्चाऽजन्तस्य विशेषणमित्याह- - उपदेशेऽजन्त इति। धातुरित्याक्षेपाल्लभ्यते। न ह्रधातोस्थल् संभवति. नित्यग्रहणमनिटो विशेषणम्। क्व नित्यमनिडित्यपेक्षायां संनिधानात्तासावेवेति विज्ञायते, `तासि च क्लृपःर' इति सन्निहितं वाऽनुवर्तते। `न वृद्भ्यः' इत्यस्मान्नेत्यनुवर्तते , तदाह– तासौ नित्यानिट् ततः परस्येत्यादि। तासाविव तास्वदिति सप्तम्यन्ताद्वतिः। यथा तासौ न भवति एवं थल्यपीत्यर्थः। अच इति किम् ?। बिभेदिथ। रुरोधिथ। उपदेशे इति किम् ?। जहर्थ। इह परत्वान्नित्यत्वच्च गुणे रपरत्वे च कृते अजन्तत्वाऽभावादेतस्याऽप्रवृत्ताविट् प्रसज्येतेत्युपदेश इत्युक्तम्। थलीति किम् ?। पपिव पपिम। नित्यमनिटः किम्?। सस्वरिथ। सस्वर्थ। नाऽयं तासौ नित्यमनिट्, `स्वरतिसूती'ति विकल्पितेट्?त्वात्। इह तासीति नेति चानुवृत्त्यैवेष्टसिद्धेस्तास्वदित्येतन्नातीवोपयुज्यत इति केचित्। अन्ये तु – यस्य तासौ विद्यमानत्वं तस्मादेव परस्य थल इण्निषेध इत्येतल्लाभार्थं तत्।तेन उवयिथ, जघसिथेत्यत्र न निषेध इत्याहुः।

Satishji's सूत्र-सूचिः

TBD.