Table of Contents

<<7-2-59 —- 7-2-61>>

7-2-60 तासि च क्ल्\उ0325पः

प्रथमावृत्तिः

TBD.

काशिका

कृप उत्तरस्य तासेः सकारादेश्च अर्धधातुकस्य परस्मैपदेषु इडागमो न भवति। श्वः कल्प्ता। कल्प्स्यति। अकल्प्स्यत्। चिक्ल्\उ0325प्सति। पर्स्मैपदेषु इत्येव, कल्पितासे। कल्पिष्यते। कल्पिषीष्ट। अकल्पिष्यत। चिकल्पिषते। क्ल्\उ0325पेरप्यात्मनेपदेन समानपदस्थस्य इडागमः इष्यते। अन्यत्र प्रतिषेधः। कृत्यपि हि पर्समिपदलुकि च प्रतिषेधो भवति, चिक्ल्\उ0325प्सिता, चिक्ल्\उ0325प्स त्वम् इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

191 तासि च। चकारात्सकाराद्याद्र्धदातुकं गृह्रते। `सेऽसिचि कृत'इत्यतः `से' इति, `आद्र्धधातुकस्ये'त्यत आद्र्धधातुकस्येडिति चानुवर्तते। `न वृद्भ्यश्चतुर्थ इत्यतो नेति च, `गमेरि'डित्यतः परस्मैपदमिति च। तदाह– क्लृपेः परस्येत्यादिना।कल्प्तासीति। `लुटि च क्लृप' इति परस्मपैपदपक्षे ऊदिल्लक्षणमिड्विकल्पं बाधित्वा `तासि च क्लृपः' इति इण्निषेधे गुण रपरत्वे लत्वे रूपम्। परस्मपैदाऽभावपक्षे तु ऊदिल्लक्षममिड्विविकल्पं मत्वा आह– कल्पितासे कल्प्तासे इति। लृटि तु `लुटि च क्लृपः' इति परस्मैपदपक्षे ऊदिल्लक्षणमिड्विकल्पं बाधित्वा `तासि च क्लृपः' इति इण्निषेधं मत्वा आह– कल्प्स्यतीति। परस्मपैदाऽभावे तु ऊदित्त्वादिडविकल्पं मत्वा आह– कल्पिष्यते कल्प्स्यत इति। कल्पताम्। अकल्प। कल्पेत। आशीर्लिङि ऊदिल्लक्षणमिड्विकल्पं मत्वा आह– कल्पिषीष्टेति, क्लृप्सीष्टेति च। इडभावे `लिङ्सिचावात्मनेपदेषु' इति कित्त्वान्न गुणः। अक्लृपदिति। `द्युद्भ्यो लुङी'ति परस्मैपदपक्षे द्युतादिलक्षणे अङि सति ङित्त्वान्न गुणः। अङभावे तु ऊदिलक्षणमिड्विकल्पं मत्वा आह– अकल्पिष्टेति, अक्लृप्तेति च। अकल्प्स्यदिति। लृङि स्ये `लुटि च क्लृप' इत#इ परस्मैपदपक्षे ऊदिलक्षणमिड्विकल्पं बाधित्वा `तासि च क्लृप' इति इण्निषेध इति भावः। परस्पैपदाऽभावपक्षे तु ऊदिल्लक्षणमिड्विकल्पं मत्वा आह– कल्पिष्यत अकल्प्स्यतेति। वृदिति। वृत्तेः समाप्त्य्रथकात्कर्तरि क्विप्। तदाह– वृत्त इति। `गत्यर्थाकर्मके' ति कर्तरि क्तः। वृत्तशब्दस्य विवरणं— सम्पूर्ण इति। द्युतादयः कृपूपर्यन्ता अनुदात्तेतो गताः। अथ त्वरत्यन्ता इति। `ञि त्वरा संभ्रमे' इत्यन्ता इत्यर्थः। षितश्चेति। षित्संज्ञका इत्यर्थः। षित्कार्यभाज इति वा। `ञि त्वरा संभ्रमे इत्युक्त्वा `घटादयः षितः'इति वक्ष्यमाणत्वादिति भावः। षित्फलं तु त्विति। मित्त्वफलं तु `मितां ह्यस्वः' इति णौ ह्यस्वः' इति णौ ह्यस्वः, `चिण्णमुलोर्दीर्घः' इति दीर्घश्च वक्ष्यते। `धातुपाठे अर्थनिर्देश उपलक्षण'मित्युक्तम्। ततश्चार्थान्तरवृत्तेरपि घटदातोर्घटादिकार्यं भवत्येव। तदाह- -घटयति विघटयतीति। संश्लेषयति विश्लेषयतीत्यर्थः। णौ ह्यस्वोदाहरणमिदम्। अघटि अघाटीति। चिण्युदाहरणम्। घाटंघाटम्, घटंघटमिति ण्यन्ताण्णमुलि दीर्घविकल्पस्योदाहरणम्। `नित्यवीप्सयो'रिति द्विर्वचनम्। ननु यद्यर्थान्तरवृत्तेरपि घटधातोर्मित्त्वं तदा `उद्घाटनं' `प्रविघाटियते' त्यत्र विकासनार्थकस्यापि घटधातोर्णौ मित्त्वाद्ध्रस्वः स्यादित्याक्षिपति– कथं तर्हीति। शृण्विति। `समाधानमिति शेषः। चौरादिकस्येति। चुरादौ `घट सङ्घाते' इति पठितम्। तदिदं घाटादिकाद्धटधातोर्धात्वन्तरमेव। तस्य णौ मित्त्वाऽभावाद्ध्रस्वाऽभावे `उद्घटनं' `प्रविघाटयिते'ति निर्बाधमेव, अर्थनिर्देशस्योपलक्षणतया सङ्घातादन्यत्र विकसनेऽपि चौरादिकस्य वृत्तिसंभवादिति भावः। ननु घटादिगणादन्यत्र अर्थान्तरे पठितानां धातूनामिह धातूनामिह घटादिगणे पाठो घटादिगणनिर्दिष्टएवार्थे मित्त्वार्थोऽनुवाद एव,नतु धातुभेदः। अन्यथा घाटादिकत्वं, गणान्तरस्थत्वं चादाय मित्त्वतदभावयोर्विकल्पापत्तेः। ये तु धातवो घटादिगण एव पठिता न तु गणान्तरे, ते,#आमन्त्वर्थान्तरवृत्तावपि मित्त्वमिति धातुवृत्त्यादिग्रन्थेषु सिद्धान्तः। घटधातुस्तु `घट सङ्घाते' इति चुरादौ पठितः। अतस्तस्यैवात्र गणे चेष्टायामर्थे मित्त्वार्थो?ऽनुवाद इति लब्धम्। एवं च `विघटयती'त्यादावर्थान्तरवृत्तौ ण्यन्तस्य कथं मित्त्वमित्याशङ्क्य निराकरोति—नचेति। तस्यैव– चौरादिकस्यैव, घटधातोश्चेष्टात्मके अर्थविशेषे वृत्तौ मित्त्वार्थोऽनुवादः स्यादिति न वाच्यमित्यर्थः। कुत इत्यत आह– नान्ये मितोऽहेताविति। चुराद्यन्तर्गणसूत्रमिदम्। तत्र हि `ज्ञप मिच्च' `यम च परिवेषणे' `चह परिवेषणे' `चह परिकल्कने' `रह त्यागे' `बल प्राणने' `चिञ् चयने' इति पञ्चधातून् पठित्वा `नान्ये मितोऽहेतौ' इति पठितम्। तत्र `चह परिकल्कने' इत्यस्य स्थाने `चपे'ति केचित्पठन्ति। तथाच पञ्चत्वस्य न विरोधः। एषु पञ्चस्वपि मिदित्यनुवर्तते। `अहेता'विति च्छेदः। कस्मादन्ये इत्यपेक्षायां संनिहितत्वाज्ज्ञापादिपञ्चभ्य इति लभ्यते। हेतुशब्देन `हेतुमति चे'ति सूत्रविहितो णिज्लभ्यते। तद्भिन्नो णिच् स्वार्थिकोऽहेतुः। तदाह— अहेतौ स्वर्थे णिचीति। ज्ञप आदिर्येषामिति अतद्गुणसंविज्ञानो बहुव्रीहिः। ज्ञपधातोस्तदुत्तरेभ्यश्च पञ्चभ्य इत्येवं ष?ड्भ्योऽन्ये ये चुरादयस्ते मितो नेति फलितम्। एवं च चुरादौ ज्ञपादिपञ्चकव्यतिरिक्तानां मित्त्वाऽभावात् `\त्घट चेष्टाया'मिति निर्देशश्चौरादिकस्य `घट सङ्घाते' इत्यस्य चेष्टायां वृत्तौ मित्त्वार्थोऽनुवाद इति न युज्यते, किंतु इहैव घटादिगणे `घट चेष्टाया'मित्यपूर्वोऽयं धातुः। तस्य चाऽर्थान्तरवृत्तावपि मित्त्वमस्त्येवेति `विघटयती'त्यादौ मित्तवाद्ध्रर्वो निर्बाध इति भ#आवः।

तत्त्वबोधिनी

162 तासि च क्लृपः। चकारात्साद्याद्र्धधातुकं गृह्रते। क्लृप्सीष्टेति। `लिङ्सिचावात्मनेपदेषु' इति कित्त्वान्न गुणः। (ग.) वृत। वृदिति। वृतु वर्तने इत्यस्मात्क्विप्। `ञित्वरा संभ्रमे' इत्यस्यानन्तरं `घटादयः षितः' इत्युक्तत्वात्त्वरत्यन्तारुआयोदसैव षितो न तु फणान्ताः सर्वेऽपीति सिद्धं,तथापि स्पष्टप्रतिपत्त्यर्थमाह– षितश्चेति। प्रयोजनं तु षिद्भिदादिभ्यः' इत्यङि टाप्। घटा व्यथेत्यादिरूपसिद्धिः। ये धातवोऽन्यत्राधीतास्तेषमिह पाठोऽर्थनियमाय। ये त्विहैव पठ\उfffद्न्ते तेषामुपसर्गादिनाऽर्थान्तरपरत्वेऽपि मित्त्वमस्त्येवेति धातुवृत्त्यादिषु स्थितं। तदेतद्ध्वनयन्नुदाहरति– विघटयतीति।

Satishji's सूत्र-सूचिः

TBD.