Table of Contents

<<7-2-4 —- 7-2-6>>

7-2-5 ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम्

प्रथमावृत्तिः

TBD.

काशिका

हकारान्तानां मकारान्तानां यकारान्तानाम् अङ्गानाम्, क्षण श्वस जागृ णि श्वि इत्येतेषाम्, एदितां च इडादौ सिचि परस्मैपदे परतो वृद्धिर् न भवति। ग्रह अग्रहीत्। स्यम अस्यमीत्। व्यय अव्ययीत्। टुवम अवमीत्। क्षण अक्षणीत्। श्वस अश्वसीत्। जागृ अजागरीत्। णि औनयीत्। ऐलयीत्। श्वि अश्वयीत्। एदिताम् रगे अरगीत्। कखे अकखीत्। ह्म्यन्तक्षणश्वसाम् एदिताम् च अतो हलादेर् लघोः 7-2-7 इति विकल्पे प्राप्ते प्रतिषेधः। जागृणिश्वीनां तु सिचि वृद्धिः प्राप्ता, सा च नेटि 7-2-4 इति न प्रतिषिध्यते। न च अन्तरङ्गत्वादत्र पूर्वं गुणो भवति, सिचि वृद्धेरनवकाशत्वात्। यदि पूर्वं गुणः स्यादिह णिश्विग्रहणम् अनर्थकं स्यात्, गुणायादेशयोः कृतयोः यकारन्तत्वादेव प्रतिषेधस्य सिद्धत्वात्। तस्मादिदम् एव श्विग्रहणं ज्ञापकम् न सिद्यन्तरङ्गम् अस्ति इति। अथ जागृग्रहणम् किमर्थम्, जाग्रो ऽविचिण्णल्ङित्सु 7-3-85) इति जागर्तेर् गुणो वृद्धेरपवादो विधीयते, स यथा अचो ञ्णिति (*6,2.115 इति वृद्धिं बाधते तथा सिचि वृद्धिम् अपि बाधिष्यते? न एतदस्ति। कृते गुणे अतो ल्रान्तस्य 7-2-2 इति य वृद्धिः प्राप्नोति सा प्रतिषिध्यते। अथ गुणविधानसमर्थ्यादुत्तरकालभाविन्यपि वृद्धिर् बाध्यते, यथा जागरयति इत्यत्र अत उपधायाः 7-1-113 इत्यपि वृद्धिर् न भवति, तथा चिण्णलोः प्रतिषेधो ऽर्थवान् भवति इति शक्यम् इह जागृग्रहणम् अकर्तुम्? तत् तु क्रियते विस्पष्टार्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

468 हमयान्तस्य क्षणादेर्ण्यन्तस्य श्वयतेरेदितश्च वृद्धिर्नेडादौ सिचि. अकटीत्. अकटिष्यत्.. गुपू रक्षणे.. 12..

बालमनोरमा

142 ह्रन्त। ह्रन्त क्षम \उfffदास जागृ \उfffदिआ एदित्–एषां द्वन्द्वात्षष्ठी। ह् म् य् इत्येते वर्णा येषामन्तेते ह्रन्ताः। तदाह– हमयान्तस्येति। क्षणादेरिति. आदिना \उfffदास जागृ इत्यनयोग्र्रहणम्। ण्यन्तस्येति। प्रत्ययग्रहणपरिभाषया णिग्रहणेन तदन्तग्रहणमिति भावः। \उfffदायतेरिति। \उfffदिआधातोरित्यर्थः। एदित इति। एत् इद्यस्येति विग्रहः। वृद्धिर्न स्यादिति। `सिचि वृद्धि'रित्यतो, `नेटी'त्यतश्च तदनुवृत्तेरिति भावः। इडादौ सिचीति। `सिचि वृद्धि'रित्यतः सिचीति, `नेटी'त्यत इटीति चानुवर्तत इति भावः। अकटीदिति। एदित्वान्न वृद्धिः। अट पटेति। `अत आदे'रिति दीर्घं मत्वाह— आटेति। पेटतुरिति। एत्त्वाभ्यासलोपौ। वटवेष्टने। ववटतुरिति। `न शसददवादिगुणाना'मिति निषेधः। ववटिथेति। अत्र `थलि च सेटी'ति प्राप्तस्य `न शसददे'ति निषेधः। किट खिट त्रास इति। यद्यपि `इट किट कटी गता' विति अग्रे किटधातुः पठ\उfffद्ते, तथाप्यर्थ भेदात्पुनरिह पाठः। खिट त्रासे,किट गतौ चेति पठितुं युक्तम्। शिट षिटेति। आद्यस्तालव्यादिः। द्वितीयस्तु षोपदेशः। जट झटेति। आद्यस्य अवैरूप्यापादकादेशादित्वादेत्त्वाऽभ्यासलोपौ। द्वितीयस्य तु न। जेटतुः जझटतुः। णट नृत्ताविति। णोपदेशेः। चुरादारेव नाटेः पर्युदासादयं णोपदेश एव। प्रणटति। इट किट कटी गताविति। `कटे वर्षाऽवरणयो'रिति कटिः पूर्वमेदित्पठितः। इह ईदित्पठ\उfffद्ते। एदित्त्वाऽभावात् ह्रन्तेति वृद्धिनिषेधो न भवति। अकटीत् अकाटीत्। ननु तर्हि कटेत्येव कुतो न पठ\उfffद्त इत्यत आह– ईकार इति। केचित्त्विति। कटि इति ह्यस्वान्तपाठं मत्वा इदित्त्वान्नुमि कृते अनुस्वारे परसवर्णे च कण्टतीति वदन्तीत्यर्थः। अन्ये त्विति। उदाहरन्तीत्यन्वयः। प्रश्लिष्येति। कटीत्यनन्तरम् इ ई इति धातुद्वयं सवर्णदीर्घेण प्रश्लिष्य निर्दिष्टमिति भावः। अयतीति। इधातोर्लटि शपि गुणेऽयादेशः। इयायेति। णलि द्वित्वे वृद्धौ आयादेशे `अभ्यासस्याऽसवर्णे' इति इयङ्। इयुतिरिति। इकारोऽत्र ह्यस्वः। तथाहि– इ-अतुसिति स्थिते कित्त्वाऽद्गुणाऽभावे `द्विर्वचनेऽची'ति निषेधाद्यणभावे `इ' इत्यस्य द्वित्वे इ इ अ–तुसिति स्थिते सवर्णपरकत्वादभ्यासस्य इयङभावे सति `वार्णादाङ्गं बलीय' इति सवर्णदीर्घं बाधित्वा `एरनेकाच' इत्युत्तरखण्डस्य यणि `इयतु'रिति रूपम्। इधातोर्भारद्वाजनियमात्थलि वेट्। तत्र इट्पक्षे रूपमाह– इययिथेति। थलि द्वित्वे इटि पित्त्वेन कित्त्वाऽभावाद्गुणेऽयादेशेऽभ्यासस्य इयङ्। न चाऽचः परस्मिन्निति गुणस्य स्थानिवत्त्वेनाऽसवर्णपरत्वाऽभावात्कथमभ्यासस्य इयङिति वाच्यम्, असवर्णग्रहणसामथ्र्यादेव स्थानिवत्त्वाऽप्रसक्तेः। एवं णलि इयायेत्यत्रापि वृद्धेर्न स्थानिवत्त्वम्। थलि इडभावपक्षे रूपमाह– इयेथेति। थलि द्वित्वे गुणेऽभ्यासस्येयङ्। अथुसि इयथुः। इयेति। थस्य अकारादेशे द्वित्वे उत्तरखण्डस्य `एरनेकाच' इति यणि रूपम्। `णलुत्तमो वे'ति णित्त्वपक्षे आह-इयायेति। द्वित्वे पित्त्वेन कित्त्वाऽभावाद्वृद्धावायादेशेऽभ्यासस्य इयङ्। णित्त्वाभावे आह- - इययेति। द्वित्त्वे पित्त्वेन कित्त्वाऽभावाद्गुणेऽयादेशेऽभ्यासस्येयङ्। वसि मसि च क्रादिनियमान्नित्यमिटि द्वित्वे उत्तरखण्डस्य `एरनेकाच' इति यणि इयिव इयिमेति रूपम्। एता एष्यति अयतु आयत् अयेत्। आशीर्लिङि तु `अकृत्सार्वधातुकयो'रिति दीर्घः। ईयात्। सिचि वृद्धिः। ऐषीत्। ऐष्यत्। दीर्घस्य त्विति। दीर्घस्य ईधातोरित्यर्थः। तस्य लिटं वर्जयित्वा लडादिषु पूर्ववत्। लिटि विशेषमाह– अयाञ्चकारेति। ईधातोरामि गुणे अयादेशः, अनुप्रयोगश्च। कुडि वैकल्य इति। वैकल्यम् अविवेक इत्याहुः। अपूर्णभावो वा। मुड प्रुड मर्दन इत्यादि। स्पष्टम्। पठधातोर्लिटि अतुसादौ किति एत्वाभ्यासलोपौ। तदाह— पेठतुरिति। पेठिथेति। पित्त्वेन अकित्त्वेऽपि `थलि च सेटी'त्येत्त्वाभ्यासलौपौ। अपठीत् अपाठीदिति। `अतो हलादेर्लघो'रिति वृद्धिविकल्पः। वठ स्थौल्य इति। स्थौल्यं–स्थूलीभवनम्। `न शसददवादिगुणाना'मित्येत्वाभ्यासलोपनिषेध इति मत्वाह– ववठतुः। ववठिथेति। दोपधा इति। ष्टुत्वेन डोपधनिर्देश इति भावः। चुदिति। चुड्डधातोः क्विपि हल्ङ्यादिना सुलोपे द्वितीयस्य डस्य संयोगान्तलोपे ष्टुत्वनिवृत्तौ `वावसाने' इति चर्त्त्वे चुदिति रूपम्। अदिति। अड्डधातोः क्विपि पूर्ववद्रूपम्। कदिति। कड्डधातोः क्विपि रूपम्। इत्यादीति। आदिना जश्त्वेन चुदित्यादिसङ्ग्रहः। एकत्वस्मरणादिति। `शिक्षादा'विति शेषः। गडडि वदनेति। तवर्गान्तेषु गडीति गतम्। परस्मैपदिनः शौटु गर्व इत्यादयो गताः। तिपृ इति। प्रथमतृतीयाविदुपधौ। द्वितीयचतुर्थौ एदुपधौ। तृतीयचतुर्थौ षोपदेशौ च,तकारस्य ष्टुत्वेन टकारस्य निर्दिष्टतया दन्त्यपरकसादित्वात्। आद्य इति। तिपृधातुरित्यर्थः। भाष्यादावनुदात्तोपदेशेष्वस्य पाठादिति भावः। बभ्रामेति। भाष्यविरुद्धत्वादिति भावः। आद्यस्योदाहरति– तेपत इति। शपि लघूपधगुणः। तितिप इति। `असंयोगा'दिति कित्त्वान्न गुणः। अथ तितिपिष इत्यत्र `एकाच उपदेश' इति निषेधमाशङ्क्याह— क्रादिनियमादिति। तेप्स्यत इति। लोडादौ तु तेपतामा, अतेपत, तेपेत। अथाशीर्लिङि सीयुटि सुटि तिप्सीष्टेति रूपं वक्ष्यति। तत्र लघूपधगुणे प्राप्ते–।

तत्त्वबोधिनी

117 हृयन्तलक्षणां अग्रहीत्। टुवम्। अवमीत्। हय गतौ। अहयीत्। क्षणु हिंसायाम्। अक्षणीत्। \उfffदास प्राणने। अ\उfffदासीत्। जागृ निद्राक्षये। अजागरीत् ण्यन्ते छन्दसि `नोनयतिध्वनयती' त्यादिना चङि निषिद्धे औनयीदिति उदाहरणम्। टुओ\उfffदिआ। अ\उfffदायीत्। इडादौ सिचीति। इडादौ किम् ?। दह भस्मीकरणे। अधक्षीत्। किट खिट। इट किटेति किटिर्गतौ पठिष्यते। इह पाठस्त्वर्थभेदात्। जट झट। जेटतुः। जझटतुः। इह त्वादेशादित्वादेत्वाभ्यासलोपौ न। खट। `अशूप्रुषिलटिखटिकणिविशिभ्यः क्वन्'। खट्वा। णट नृतौ। प्रणटति। णोपदेशपर्युदासे नाटीति सवृद्धिकनिर्देशेन `नट अवस्यन्दने' इति चौरादिकस्यैव ग्रहणादयं णोपदेश एव। हट दीप्तौ। हाटकं – सुर्वणम्। `संज्ञायां चे'ति ण्वुल् बाहुलकादस्त्रियामपि। षट। पटाद्यजन्ताट्टाप्।`सटा जटाकेसरयोःर'। चिट। `सर्वधातुभ्यः' इतिऔणादिक इन्। चेटिः। `कृदिकारात्–' इति ङीष्। चेटी। विट। इगुपधलक्षणः कः। विटः। इयायेति। द्वित्वे कृते णलि वृद्धौ सत्यामायादेशः। `अभ्यासस्याऽसवर्णे' इति इयङ्। ईयतुरिति। द्वित्वे ककृते `एरनेकाच' इति यणं बाधित्वा अन्तरङ्गत्वात्सवर्णदीर्घः। ततः `अचि श्नुधातु-' इतीयङ्। एकादेशस्य पूर्वान्तवत्त्वेन अभ्यासग्रहणेन ग्रहणात् `अभ्यासस्याऽसवर्णे' इत्यनेनेत्येके। केचित्तु– `वार्णादाङ्गं बलीयःर' इति दीर्घं बाधित्वा यण्। न चेह समानाश्रयत्वं नेति वाच्यम्, अभ्यासोत्तरस्येकारस्य सवर्णदीर्घयणौ प्रति स्थानित्वेन तयो समानाश्रयत्वात्। अत एव ईयतुरित्यत्र `इणो यण्' इति यणै ततो `दीर्घ इणः किति' इत्यब्यासस्य दीर्घो विधीयते। अन्यथा सूत्रमिदं निर्विषयं स्यात्, अभ्यासाऽभावादित्याहुः। स्यादेतत्– णल्थलोस्त्वभ्यासस्येयङ् दुर्लभः, तस्मिन्कर्तव्ये `अचः परस्मिन्-' इति वृद्धिगुणयोः स्थानिवद्भावेन असवण इति प्रतिषेधादिति चेत्। अत्राहुः– न ह्रेकमुदाहरणं योगारम्भं प्रयोजयति। अन्यथा ह्रभ्यासस्यार्ताविति ब्राऊयात्। एवं चान्तरङ्गत्वात्सवर्णदीर्घे कृते ततो वृद्धिगुणयोः सतोर्णलि आय, थलि–एथ। इट्पक्षे तु अयिथेति स्यादित्याशङ्कापि न कार्या, `अब्यासस्याऽसवर्णे' इत्यस्य वैयथ्र्यापत्तेरिति। एता। एष्यति। `अकृत्सार्वेति दीर्घः। ईयात्। ऐषीत्। कुडि। वैकल्यविवेकः। तुड्ट। तोडनं दारणं हिंसनं च। रोड्ट लोड्ट। उन्मादश्चित्तविभ्रमः। गडि वदनैकदेशे। टवर्गीयप्रकरणादिह पाठस्तु उचितः। अन्तत्यादिषु तु `पञ्चैते न तिङ्विषया' इति मतान्तरं बोधयितुं प्रसङ्गादुपन्यस्तः। तिपृ तेपृ।

Satishji's सूत्र-सूचिः

वृत्ति: हमयान्तस्य क्षणादेर्ण्यन्तस्य श्वयतेरेदितश्च वृद्धिर्नेडादौ सिचि परस्मैपदे । When the affix “सिँच्” (which begins with the augment “इट्” and is followed by a परस्मैपदम् affix) follows, the वृद्धिः substitution is prohibited for a अङ्गम् which either – i) ends in the letter “ह्”, “म्” or “य्” or ii) consists of the verbal root √क्षण् (क्षणुँ हिंसायाम् ८. ३), √श्वस् (श्वसँ प्राणने २. ६४), √जागृ (जागृ निद्राक्षये २. ६७) or √श्वि (ट्वोश्वि गतिवृद्ध्योः १. ११६५) or iii) ends in the affix “णि” or iv) has “ए” as a इत्।

उदाहरणम् – अहसीत् derived from √हस् (हसेँ हसने १. ८२२). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

हस् + लुँङ् 3-2-110
= हस् + ल् 1-3-2, 1-3-3, 1-3-9
= हस् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= हस् + ति 1-3-3, 1-3-9
= हस् + त् 3-4-100
= हस् + च्लि + त् 3-1-43
= हस् + सिँच् + त् 3-1-44
= हस् + स् + त् 1-3-2, 1-3-3, 1-3-9
= हस् + इट् स् + त् 7-2-35, 1-1-46
= हस् + इस् + त् 1-3-3, 1-3-9
= हस् + इस् + ईट् त् 7-3-96, 1-1-46
= हस् + इस् + ईत् 1-3-3, 1-3-9
At this stage 7-2-3 would ordain a वृद्धिः substitute in place of the अकारः of the अङ्गम् “हस्”, but it is prohibited by 7-2-4.
Now 7-2-7 would prescribe an optional वृद्धिः, but it is prohibited by 7-2-5 ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम्।
= अट् हस् + इस् + ईत् 6-4-71, 1-1-46
= अ हस् + इस् + ईत् 1-3-3, 1-3-9
= अ हस् + इ + ईत् 8-2-28
= अहसीत् The वार्त्तिकम् “सिज्लोप एकादेशे सिद्धो वाच्यः” allows 6-1-01 to apply.