Table of Contents

<<7-2-38 —- 7-2-40>>

7-2-39 न लिङि

प्रथमावृत्तिः

TBD.

काशिका

वृतः उत्तरस्य इटो लिङि दीर्घो न भवति। विवरिषीष्ट। प्रावरिषीष्ट। आस्तरिषीष्ट। विस्तरिषीष्ट।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

695 वॄत इटो लिङि न दीर्घः. स्तरिषीष्ट. उश्चेति कित्त्वम्. स्तीर्षीष्ट. सिचि च परस्मैपदेषु. अस्तारीत्. अस्तारिष्टाम्. अस्तारिषुः. अस्तरीष्ट, अस्तरिष्ट, अस्तीर्ष्ट.. कृञ् हिंसायाम्.. 14.. कृणाति, कृणीते. चकार, चकरे.. वृञ् वरणे.. 15.. वृणाति, वृणीते. ववार, ववरे. वरिता, वरीता. उदोष्ठ्येत्युत्त्वम्. वूर्यात्. वरिषीष्ट, वूर्षीष्ट. अवारीत्. अवारिष्टाम्. अवरिष्ट, अवरीष्ट, अवूर्ष्ट.. धूञ् कम्पने.. 16.. धुनाति, धुनीते. धविता, धोता. अधावीत्. अधविष्ट, अधोष्ट.. ग्रह उपादाने.. 17.. गृह्णाति, गृह्णीते. जग्राह, जगृहे..

बालमनोरमा

359 न लिङि। `वृ?तो वेत्यतो `वृ?त' इत्यनुवर्तते। लिङीति षष्ठ\उfffद्र्थे सप्तमी। `आद्र्धधातुकस्ये'डित्यत इडित्यनुवृतं षष्ठ\उfffदा विपरिणम्यते। `ग्रहोऽलिटी'त्यतो दीर्घ इत्यनुवर्तते। तदाह— वृ?त इति। वृङ्वृञ्?भ्यामृ?कारान्ताच्चेत्यर्थः। विरषीष्टेति। इट्पक्षे `वृ?तो वे'ति प्राप्तो दीर्घो न भवति। वृषीष्टेति। इडभावपक्षे `उश्चे'ति कित्त्वान्न गुणः। अवारीदिति। लुङि परस्मैपदे सिचि वृद्धिः। अवारिष्टाम् अवारिषुः। `सिचि च परस्मैपदेषु' इति निषेधादिह `वृ?तो वे'ति न दीर्घः। लुङस्तङि सिचि `लिङ्सिचो'रिति इट्पक्षे `वृ?तो वे'ति दीर्घविकल्पं मत्वा आह– - अवरिष्ट अवरीष्टेति। अवृतेति। इडभावपक्षे `ह्यस्वादङ्गा'दिति सिचो लोपः। धुञ् कम्पन इति। ह्यस्वान्तोऽयमनिट्। षुञ इव रूपाणि। दीर्गान्तोऽप्ययमित्यादि। व्यक्तम्। अथ परस्मपैदिन इति। `राध साध संसिद्धा'वित्येतत्पर्यन्ता इत्यर्थ। `टु दु उपतापे' इत्यारभ्य `स्मृ इत्येके' इत्येतत्पर्यन्ता धातवो ह्यस्वान्ताः। हि गताविति। `प्रहिणोती'त्यत्र भिन्नपदत्वाण्ण्तवेऽप्राप्ते आह–

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

वृत्ति: वॄत इटो लिङि न दीर्घः। The elongation of the augment इट् (when it follows the verbal root √वृ (वृङ् सम्भक्तौ ९. ४५) or √वृ (वृञ् वरणे ५. ८) or any verbal root ending in a ॠकार:) prescribed by 7-2-38 वॄतो वा does not take place if a लिँङ् affix follows.

Example continued from 7-2-38.

स्तॄ + इसीस्त 7-2-39 stops 7-2-38
= स्तर् + इसीस्त 7-3-84, 1-1-51. Note: 1-2-12 cannot apply here because the प्रत्यय: “इसीस्त” is not beginning with a झल् letter.
= स्तरिषीष्ट 8-3-59 (applied twice), 8-4-41

Thus in आत्मनेपदम् there are two alternate forms स्तीर्षीष्ट/स्तरिषीष्ट।