Table of Contents

<<7-2-32 —- 7-2-34>>

7-2-33 सोमे ह्वरितः

प्रथमावृत्तिः

TBD.

काशिका

ह्वरितः इति ह्वरतेर् निष्ठायाम् इडागमो गुणश्च निपात्यते छन्दसि विषये, सोमश्चेद् भवति। मा नः सोमो ह्वरितः। विह्वरितस्त्वम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

वा द्रुहः। `दादे'रित्यतो घ इत्यनुवर्तते। झलीति पदस्येति अन्ते #इति पूर्ववदनुवर्तते। तदाह–एषामिति। द्रुहादीनां चतुर्णामित्यर्थः। ध्रुक्–ध्रुगिति। घत्वपक्षे भष्भावे चत्र्वविकल्प इति भावः। ध्रुट् ध्रुडिति। घत्वाऽभावपक्षे `हो ढः' इति ढत्वे भष्भावे चत्र्वविकल्पः। अत्र भष्भावार्थमेव `हो ढः' इति सूत्रे ढ एव विहित, नतु डः। तथा सति झषन्तत्वाऽभावाद्भष्भावो न स्यात्। अचि सुपि दुर्हमित्यादि। ध्रुग्भ्यामिति। घत्वपक्षे भष्भावः। ध्रुड्भ्यामिति। घत्वाऽभावपक्षे ढत्वे जश्त्वे रूपम्। एवं भिसि भ्यसि च रूपद्वयम्। द्रुहः। द्रुहः। द्रुहोः द्रुहाम्। ध्रुक्ष्विति। घत्वे भष्भावे `आदेशप्रत्यययोः' इति षत्वे `खरि चे'ति चत्र्वम्। ध्रुट्त्स्विति। घत्वाऽभावपक्षे ढत्वे भष्भावे ढस्य जश्तेव धुटि चर्त्वे डस्य चत्र्वम्। चत्र्वस्याऽसिद्धत्वा`च्चयो द्वितीयाः' इति तकारस्य थो न भवति। ` न पदान्ता'दिति ष्टुत्वं न। ध्रुट्स्विति। धुडभावे रूपम्। हस्य ढः, भष्भावः, ढस्य जश्त्वेन डः, तस्य चर्त्वेन टः। एवमिति। `भष्भाववर्ज'मिति शेषः। वि\उfffदां वहतीत्यर्थ `भजोण्वि'रित्यतो ण्विरित्यनुवृत्तौ `वहश्चे'ति ण्विः। णकार इत्। वेर्लोपः। `अत उपधायाः' इति वृद्धिः। उपपदसमासः। वि\उfffदावाहितिं रूपम्। ततस्सोर्हल्ङ्याबिति लोपे हो ढः' इति ढत्वे `वाऽसाने' इति चत्र्वविकल्पे- वि\उfffदावाट् वि\उfffदाआड्, वि\उfffदाआहौ, वि\उfffदावाहः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.