Table of Contents

<<7-2-2 —- 7-2-4>>

7-2-3 वदव्रजहलन्तस्य अचः

प्रथमावृत्तिः

TBD.

काशिका

वदव्रजोः हलन्तानां च अङ्गानाम् अचः स्थाने वृद्धिर् भवति सिचि परस्मैपदे परतः। अवादीत्। अव्राजीत्। विकल्पबाधनार्थं वदिव्रजिग्रहणम्। हलन्तानाम् अपाक्षीत्। अभैत्सीत्। अच्छैत्सीत्। अरौत्सीत्। अत्र योगविभागे सति हलन्तग्रहणम् अन्तरेण अपि सिध्यति। कथम्? वदिव्रज्योः इत्यत्र प्रथमयोगे अतः इति स्थानी अनुवर्तते, ततो यतचः इति सूत्रं तत्र अङ्गेन अज्विशेष्यते, अङ्गस्य अचः सिचि परतः वृद्धिर् भवति। तदेतद् धल्ग्रहणम् हल्समुदायपरिग्रहार्थम्। इह अपि स्यात्, अराङ्क्षीत्, असाङ्क्षीत्। अन्यथा हि येन न अव्यवधानं तेन व्यवहिते ऽपि वचनप्रामाण्यातित्येकेन वर्णेन व्यवधाने स्यात्, अनेकेन हला न स्यात्। उदवोढाम्, उदवोढम् इत्यत्र वहेः सिचि ढत्वसलोपादीनाम् पूर्वत्र असिद्धम् 8-2-1 इत्यसिद्धत्वात् पूर्वं हलन्तलक्षणा वृद्धिः क्रियते, पश्चाद् ढलोपनिमित्तमोत्वम्। तत्र कृते पुनर् वृद्धिर् न भवति, कृतत्वात्। यत्र त्वकृता वृद्धिः, ओकारस्य एव तत्र भवति, सोढामित्रस्य अपत्यम् सौढामित्रिः इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

467 एषामचो वृद्धिः सिचि परस्मैपदेषु. अव्राजीत्. अव्रजिष्यत्.. कटे वर्षावरणयोः.. 11.. कटति. चकाट. चकटतुः. कटिता. कटिष्यति. कटतु. अकटत्. कटेत्. कट्यात्..

बालमनोरमा

111 अत्र वृद्धिमाशङ्कितुमाह– वदव्रज। वद वर्ज हलन्त एषां समाहाद्वन्द्वात् षष्ठ\उfffदेकवचनम्। अङ्गस्येत्यधिकृतम्। `सिचि वृद्धिः परस्मैपदेष्वि'त्यनुवर्तते। तदाह– वदेरित्यादिना। हलन्तत्वादेव सिद्धे वदवर्जग्रहणं तु अवादीदव्राजीदित्यत्र `अतो हलादेर्लघो'रिति वृद्धिविकल्पबाधनार्थम्।

तत्त्वबोधिनी

86 वदव्रज। अवादीत्। अव्राजीत् `अतो हलादे'रितिविकल्पं बाधित्वा अनेन नित्यं वृद्धिः। हलन्तस्योदाहरणम्– अपाक्षीत् अधाक्षीत्। तदन्तविधिनैव सिद्धेऽन्तग्रहणं स्पष्टप्रतिपत्त्यर्थम्। `हलोऽ'जित्युक्ते त्वजन्ताह्गस्य हलः स्थाने वृद्धिरिति कदाचिदाशङ्क्येत। `अच' इति तु इक्परिभाषाया अनुपस्थानार्थम्, अन्यथा अभैत्सीदित्यत्र स्यान्नत्वपाक्षीदित्यादौ।

Satishji's सूत्र-सूचिः

वृत्ति: एषामचो वृद्धिः सिचि परस्मैपदेषु। A vowel belonging to a base (अङ्गम्) consisting of the verbal root √वद् (वदँ व्यक्तायां वाचि १. ११६४) or √व्रज् (व्रजँ गतौ १. २८६) or ending in a consonant takes the वृद्धि: substitute when followed by the affix सिँच् which is in turn followed by a परस्मैपदम् affix.

Note: The verbal roots √वद् and √व्रज् end in a consonant too. There was no need to specially mention these roots here in 7-2-3. But if these roots were not mentioned in 7-2-3, then by 7-2-4 नेटि, the वृद्धि: substitution would be prohibited and further by 7-2-7 अतो हलादेर्लघोः, the optionality of the वृद्धि: substitution would be introduced. Their special mention here in 7-2-3 tells us that the वृद्धि: substitution for the roots √वद् and √व्रज् is mandatory (नित्य-कार्यम्।)

उदाहरणम् – अपाठीत्/अपठीत् derived from √पठ् (पठँ व्यक्तायां वाचि १. ३८१). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

पठ् + लुँङ् 3-2-110
= पठ् + ल् 1-3-2, 1-3-3, 1-3-9
= पठ् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= पठ् + ति 1-3-3, 1-3-9
= पठ् + त् 3-4-100
= पठ् + च्लि + त् 3-1-43
= पठ् + सिँच् + त् 3-1-44
= पठ् + स् + त् 1-3-2, 1-3-3, 1-3-9
= पठ् + इट् स् + त् 7-2-35, 1-1-46
= पठ् + इस् + त् 1-3-3, 1-3-9
= पठ् + इस् + ईट् त् 7-3-96, 1-1-46
= पठ् + इस् + ईत् 1-3-3, 1-3-9
At this stage 7-2-3 would ordain a वृद्धि: substitute in place of the अकार: of the अङ्गम् “पठ्”, but it is prohibited by 7-2-4.

Example continued under 7-2-4