Table of Contents

<<7-2-24 —- 7-2-26>>

7-2-25 अभेश् च आविदूर्ये

प्रथमावृत्तिः

TBD.

काशिका

अभिशबादुत्तरस्य अर्देः आविदूर्ये ऽर्थे निष्ठायाम् इडागमो न भवति। अभ्यर्णा सेना। अभ्यार्णा शरत्। आविदूर्ये इति किम्? अभ्यर्दितो वृषलः। शीतेन पीडितः इत्यर्थः। विदूरम् विप्रकृष्टम्, ततो ऽन्यदविदूरम्, तस्य भावः आविदूर्यम्। एतस्मादेव निपातनात् न नञ्पूर्वात् तत्पुरुषात् 5-1-121 इत्युत्तरस्य भावप्रत्ययस्य प्रतिषेधो न भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

872 अभेश्चाविदूर्ये। अविदूरस्य भाव आविदूर्यम्। तस्मिन् गम्ये अभेः परोऽर्दिरनिट्क इत्यर्थः। सामीप्य इत्येव तु नोक्तम्, अनतिदूरस्य असङ्ग्रहापत्तेः। तत्सूचयन्नाह– नातिदूरमिति।

तत्त्वबोधिनी

716 अभेः। विशेषेण दूरं विदूरं, ततोऽन्यविदूरं, तस्य भाव आविदूर्यम्। ब्राआहृणादित्वात्ष्यञ्। अस्मादेव निर्देशात् न नञ्पूर्वात्तत्पुरुषा'दिति निषेधो न भवति। सामीप्य इत्येव तु नोक्तं, नातिदूरस्याऽसङ्ग्रहापत्तेः, तदेतद्ध्वनयन्व्याचष्टे– नातिदूरमासन्नं वेति। एवं च सामीप्य इति प्राचीनव्याख्यानमुपलक्षणतया नेयमितयाहुः।

Satishji's सूत्र-सूचिः

TBD.