Table of Contents

<<7-2-25 —- 7-2-27>>

7-2-26 णेरध्ययने वृत्तम्

प्रथमावृत्तिः

TBD.

काशिका

ण्यन्तस्य वृत्तेर् निष्ठायाम् अध्ययनार्थे वृत्तम् इति इडभावः णिलुक् च निपात्यते। वृत्तो गुणे देवदत्तेन। वृत्तं पारायणं देवदत्तेन। अध्ययने इति किम्? वर्तितम् अन्यत्र। वृतिरयम् अकर्मकः, स ण्यर्थे वर्तमानः सकर्मको भवति। तेन निर्वृत्तम् इति हि प्रकृटेरेव कर्मणि क्तप्रत्ययो दृश्यते। तद्वदिह अपि ण्यर्थवृत्तेरेव च वृतेः वृत्तो गुणो देवदत्तेन इति भविष्यति इति निपातनम् अनर्थकम्? तत् क्रियते यदापि णिचैव ण्यर्थो ऽभिधीयते तदावर्तितम् इत्यध्ययने मा भूतिति केचित्। अपरे तु वर्तितो गुणो देवदत्तेन इत्यपि इच्छन्ति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

873 णेरध्ययने। णिलुक् चेति। णिलोपे तु लघूपधगुणः स्यादिति भावः। अधीयमान इति। सूत्रे अध्ययनशब्दः कर्मणि ल्युडन्त इति भावः।

तत्त्वबोधिनी

717 णेः। अधीयत इति अध्ययनम्। `कृत्यल्युटः' इति बहुलवचनात्कर्मणि ल्युट्। णिलुक् चेति। `निपात्यते' इति शेषः। लोपे हि प्रत्ययलक्षणेन गुणः स्यादिति भावः।

Satishji's सूत्र-सूचिः

TBD.