Table of Contents

<<7-2-22 —- 7-2-24>>

7-2-23 घुषिरविशब्दने

प्रथमावृत्तिः

TBD.

काशिका

घुषेर् धातोरविशब्दने ऽर्थे निष्ठायाम् इडागमो न भवति। घुष्टा रज्जुः। घुष्टौ पादौ। अविशब्दने इति किम्? अवघुषितं वाक्यमाह। विशब्दनं प्रतिज्ञानम्। घुषिरशब्दार्थे इति भूवादिषु पठ्यते। घुषिर् विशब्दने इति चुरादिषु। तयोरिह सामान्येन ग्रहणम्। विशब्दनप्रतिषेधश्च ज्ञापकश्चुरादिणिज् विशब्दनार्थस्य अनित्यः इति। तेन अयम् अपि प्रयोगः उपपन्नो भवति, महीपालवचः श्रुत्वा जुघुषुः पुष्पमाणवाः। स्वाभिप्रायं शब्देन अविष्कृतवन्तः इत्यर्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

870 घुषिरविशब्दने। घुष्टा रज्जुरिति। उत्पादितेत्यर्थः। आयामितेति वा। शब्देन अभिप्रायप्रकाशनं विशब्दनम्। तदाह– शब्देनेति।

तत्त्वबोधिनी

715 घुषिरवि। घुषिरविशब्दार्थ इति भ्वादिः , घुषिरविशब्दन इति चुरादिः, द्वयोरपि सामान्येन ग्रहणम्। ननु विशब्दनार्थाद्धुषेश्चुरादिणिचा भाव्यं, ततश्च णिचा व्यवधानाद्धुषेः परा निष्ठा नास्तीति कथमिण्निषेधप्रसङ्गः, किं च विशब्दने त्विण्निषेधाऽभावाण्णिच्युपधागुणे `निष्ठायां सेटी'ति णिलोपे च `घोषितं वाक्य'मित्यपि स्यादिति चेत्। अत्राहुः– एवं तर्हि विशब्दनप्रतिषेध एव ज्ञापकः– - विशब्दनार्थस्य चुरादिणिजनित्य इति [इति] नास्त्युक्तदोष इति दिक्।

Satishji's सूत्र-सूचिः

TBD.