Table of Contents

<<7-1-67 —- 7-1-69>>

7-1-68 न सुदुर्भ्यां केवलाभ्याम्

प्रथमावृत्तिः

TBD.

काशिका

सु दुरित्येताभ्यां केवलाभ्याम् अन्योपसर्गरहिताभ्याम् उपसृष्टस्य लभेः खल्घञोः परतः नुमागमो न भवति। सुलभम्। दुर्लभम्। घञि सुलाभः। दुर्लाभः। केवलाभ्याम् इति किम्? सुप्रलम्भः। दुष्प्रलम्भः। सुदुर्भाम् इति तृतीयां मत्वा केवलग्रहणं क्रियते। पञ्चम्यां हि व्यवहितत्वादेव अप्रसङ्गः। अतिसुलभम् इत्यत्र कर्मप्रवचनीयत्वादेतेः केवल एव सुशब्द उपसर्गः इति भवति प्रतिषेधः। यदा तु अतिशब्दो न कर्मप्रवचनीयः, तदा नुम् भवति एव अतिसुलम्भः इति। पञ्चमीनिर्देशपक्षे ऽप्येवम् अर्थं केवलग्रहणम् कर्तव्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1580 यदा स्वती इति। `सुः पूजायाम्', `अतिरतिक्रमणे चे'ति तयोः कर्मप्रवचनीयत्वम्।

Satishji's सूत्र-सूचिः

TBD.