Table of Contents

<<7-1-68 —- 7-1-70>>

7-1-69 विभाषा चिण्णमुलोः

प्रथमावृत्तिः

TBD.

काशिका

चिण् णमुलित्येतयोः विभाषा लभेर् नुम् भवति। अलाभि, अलम्भि। लाभंलाभम्, लम्भंलम्भम्। व्यवस्थितविभाषा चेयम्, तेन अनुपसृष्टस्य विकल्पः, उपसृष्टस्य नित्यं नुम् भवति। प्रालम्भि। प्रलम्भम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

762

बालमनोरमा

1754 विभाषा चिण्णमुलोः। `लभेश्चे'त्यतो लभेरिति, `इदतो नु'मित्यतो नुमिति चानुवर्तते इति मत्वा शेषं पूरयति– लभेर्नुमागमो वेति। ननु प्रालम्भि उपालम्भीत्यादौ उपसर्गपूर्वस्यापि लभेर्नुम्विकल्पः स्यादित्यत आह– व्यवस्थितेति। प्रादेरुपसर्गात्परस्य लभेर्नित्यं नुम्, अनुपसर्गात्परस्ये'ति वार्तिकात्, भाष्ये `उपसर्गात् खल्घञो' रित्यतौपसर्गादिति `न सुदुभ्र्या'मित्यतो नेति चानुवर्त्त्य उपसर्गात्परस्य लभेः `विभाषा चिण्णमुलो'रिति नेति व्याख्यातम्। एतेन प्रपूर्वस्य लभेर्नित्यं नुमिति व्याख्यानं परास्तम्। `लः कर्मणी'ति लकाराविहिताः, तथा `तयोरेवे कृत्यक्तखलर्थाः' इति कर्मणि कृत्यादिप्रत्यया वक्ष्यन्ते। ते तावद्द्वकर्मकधातुषु कतरस्मिन् कर्मणि भवन्तीत्यत्र व्यवस्थामाह– द्विकर्मकाणां त्विति। `कर्मप्रत्ययव्यवस्था वक्ष्यतेट इति शेषः। तां व्यवस्थां साद्र्धश्लोकेन दर्शयति– गौणे कर्मणीत्यादिना। दुह्राच्पच्दण्ड्?रुधिप्रच्छिचिब्राऊशासुजिमथ्मुषां गौणे कर्मणि लादयो मता इत्यन्वयः। `अकथितं चे'ति सूत्रेण यस्य कर्मसंज्ञा तद्गौणं कर्मेति बोध्यम्। प्रधाने इति। नीह्मकृष्वहां प्रधाने कर्मणि लादयो मता इत्यन्वयः। `अकथितं चे'ति सूत्रादन्येन यस्य कर्मसंज्ञा तत्प्रधां कर्मेति बोध्यम्। अथ `गतिबुद्धी'ति सूत्रेण ये द्विकर्मकास्तेषु व्यवस्तामाह– बुद्धीति। बुद्ध्यर्थकस्य भक्षार्थकस्य शब्दकर्मकाणां च प्रधाने वा गौणे वा कर्मणि स्वेच्छया लादयो मता इत्यन्वयः। इह `गतिबुद्धी'त्यनेन यस्य कर्मसंज्ञा तद्गौणं कर्म। तदितरत्तु प्रधानं कर्म। प्रयोज्येति। अन्येषां = गत्यर्थानामकर्मकाणां `ह्मक्रो'रिति सूत्रोपात्तह्मकृञोश्च प्रयोज्यकर्मणि लादयो मता इत्यन्वयः। अयं साद्र्धश्लोकः `अकथितं चे'ति सूत्रस्थवार्तिकभाष्यसङ्ग्रह इति बोध्यम्। गौर्दुह्रते पय इति। `गोपेने'ति शेषः। अत्र गोरप्रधानकर्मत्वात्तस्मिन् कर्मणि लकारः। तिङाऽभिहितत्वाद्गोः प्रथमा। प्रधानकर्मत्वात्पय इति द्वितीयान्तं, तस्य तिङाऽनभिहितत्वात्। बलिर्याच्यते वसुधाम्। अविनीतो विनयं याच्यते। तण्डुला ओदनं पच्यन्ते। गर्गाः शतं दण्ड\उfffद्न्ते। व्रजो रुध्यते गाम्। माणवकः पन्थानं पृच्छ्यते। वृक्षोऽवचीयते फलानि। माणवको धर्ममुच्यते, शिष्यते वा। शंत जीयते देवदत्तः। सुधां क्षीरोदधिर्मथ्यते। देवदत्तः शतं मुष्यते। एतेषु गौणकर्मण लकारः। अथ `प्रधाने नीह्मकृष्वहा'मित्यत्रोदाहरति– अजा ग्रामं नीयते इत्यादि। प्रतिक्रियमजा ग्राममित्यन्वेति। उह्रत इत्यत्र वहतेर्यजादित्वात्संप्रसारणम्। अत्र अजायां प्रधानकर्मणि लकारः, ग्रामस्याऽनभिहितत्वाद्द्वितीया। बुद्ध्यर्थस्योदाहरति –बोध्यते माणवकं धर्मः, माणवको धर्ममिति वेति। `गुरुणे'ति शेषः। अत्र माणवके गौणकर्मणि, धर्मे वा प्रधानकर्मणि ण्यन्ताल्लकारः। भक्षार्थस्य तु अश्यन्ते देवा अमृतं हरिणा, अश्यतेऽमृतं देवानिति वा उदाहार्यम्। शब्दकर्मस्य तु वेदोऽध्याप्यते विधैं हरिणा, वेदमध्याप्यते विधिरिति वेत्युदाहार्यम्। यदुक्तं `गत्यर्थानामकर्मकाणां ह्मकृञोश्चेत्येतेषां प्रयोज्यकर्मणि लकार' इति। तत्र गत्यर्थस्योदाहरति– देवदत्तो ग्रामं गम्यते इति। `यज्ञदत्तेने'ति शेषः। अत्र प्रयोज्यकर्मणि देवदत्ते गमेण्र्यन्ताल्लः। ननु अकर्मकाणां ण्यन्तानां प्रयोज्यकर्मण्येव लादय इति वयवस्था व्यर्था। तत्र प्रयोज्यं विना अन्यस्य कर्मण्योऽभावादित्याशङ्क्य `अकर्मकधातुभिर्योगे देशः कालो भावो गन्तव्योऽध्वा च कर्मसंज्ञक इति वाच्य'मिति वार्तिकेन अकर्मकधातू#आनमपि देशकालादिकर्मत्वेन ण्यन्तानां तेषां द्विकर्मकतया प्रयोज्यकर्मण्येव तत्र लादय इति व्यवस्था प्रयोजनवतीत्यभिप्रेत्य `मासमास्यते माणवक' इति ण्यन्ते प्रयोज्यकर्मणि माणवके एव लो, न तु मासे कर्मणीत्युदाहरिष्यते। एवं तर्हि अण्यन्तेष्कर्मकेषु `मासमास्यते देवदत्तेने'ति भावे लकारो न स्यात्, `सकर्मकेभ्यः कर्मणि कर्तरि च ल' इति नियमात्। `मास आस्यते देवदत्तेने'त्येव कर्मणि लकारः स्यादित्याशङ्क्य आह- - अकर्मकाणामित्यादि।ये अकर्मकाः `कर्तुरीप्सिततमं कर्म', `तथायुक्तं चानीप्सित'मिति सूत्रसिद्धकर्मरहिताः `आस उपवेशने', `वृतु वर्तने' इत्यादयः, तेषाम् `अकर्मकधातुभिर्योगे' इति वार्तिकसिद्धकर्मणां कर्मणि भावे च लकार इष्यते इत्र्थः। न चेदं वार्तिकमिति भ्रमितव्यं, भाष्ये अदर्शनात्। किंतु न्यायमूलकमेव, अकर्मधातुभिर्योगे देशकालादीनां कर्मसंज्ञाविकल्पस्य भाष्याद्यभिमतत्वात्। यथा चैतत्तथा कारकाधिकारे `अकर्मकधातुभिर्योगे' इति वचनव्याख्यावसरे अवोचाम। तदाह- - मासो मासं वा आस्यते देवदत्तेनेति। अत्र मासस्य कर्मत्वपक्षे कर्मणि लकारः, मासस्याऽभिहितत्वात्प्रथमा। मासस्य कर्मत्वाऽभावपक्षे तु भावे लकारः। मास इति सप्तमी। मासमिति त्वपपाठः। अथ प्रकृतनुमसरति– णिजन्तात्त्विति। आसधातो प्रकृतिसिद्धकर्मरहितत्वेन अकर्मकाण्णौ मासस्य कर्मत्वपक्षेऽपि प्रयोज्यकर्मण्येव लकार इत्यर्थः। मासमास्यते माणवक इति। ण्यन्तात्प्रयोज्यकर्मणि माणवके लः। मासस्याऽनभिहितत्वाद्द्वितीया। ह्मकोस्तु हार्यते वा भृत्यः कटं देवदत्तेन। इति भावकर्मप्रक्रिया।

तत्त्वबोधिनी

1351 विभाषा। `लभेश्चे'त्यतो लभेरिति वर्तते। णमुलि–लभंलभम्। लाभंलाभम्। प्रादेस्तु–प्रलम्भंप्रलम्भमित्येव। अथ ये द्विकर्मकास्तेषु लकृतद्यक्तखलर्थाः किं मुख्ये कर्मणि, उत गौणे, किं वोभयोरिति संदेहे व्यवस्थामाह—-द्विकर्मकाणां त्विति।दुह्रादेरिति। दुह्राच्पचिति श्लोके पूर्वार्धोपात्ता द्वादश दुह्रादयस्तेभ्यो गौणे कर्मणि लादयो मता इत्यन्वयः। `अकथितं चे'ति सूत्रेण यस्य कर्मसंज्ञा तद्गौणम्। `गतिबुद्धी'ति सूत्रेण ये द्विकर्मकास्तत्र व्यवस्थामाह- - तद्गौणम्। प्रयोज्येति। अणौ कर्तुणौ कर्मसंज्ञा यस्य तत्प्रयोज्यकर्म। अन्येषामिति। गत्यर्थाऽकर्मकह्मकरोतीनाम्। लादय इति। कृत्यक्तखलर्था आदिशब्देन ग्राह्राः। गौर्दुह्रते इति। `देवदत्तेने'ति शेषः।कृत्यादिषु गौर्दोग्धव्या। दोहनीया पयः। गौः सुदोहा दुर्दोहा पयः। अजा ग्रामं नेतव्या। नयनीया। हरत्वया। हरणीया। अजा ग्रामं नेया इत्याद्युहर्तव्यम्। ग्रामं गम्यत इति। `यज्ञदत्तेने'त्यध्याहारः। माणवक इति। अयं प्रयोज्यः कर्ता। देवदत्तेनेति प्रयोजकस्त्वध्याहर्तव्यः। \र्\निति तत्त्वबोधिन्याम् भावकर्मप्रक्रिया।

Satishji's सूत्र-सूचिः

TBD.