TBD.
लभेश्च अजादौ प्रत्यये शब्लिड्वर्जिते नुमागमो भवति। लम्भयति। लम्भकः। साधुलम्भी। लम्भंलम्भम्। लम्भो वर्तते। अशब्लिटोः इत्येव, लभते। लेभे। अचि इत्येव, लब्धा। लभेश्च पृथग्योगकरनम् उत्तरार्थम्।
TBD.
–
410 लभेश्च। लभेरपि नुम् स्यादचि, नतु शब्लिटोरित्यर्थस्य स्पष्टत्वादनुक्तिः। अररम्भदिति। नुमि कृते संयोगपरत्वेन अकारस्य लघुत्वाऽभावान्न सन्वत्त्वमिति भावः। `हि गतौ वृद्धौ चे'त्यस्माच्चङि `अजीहय'दित्यत्र `हेरचङी'ति हकारस्य कुत्वं नेत्याह– हेरचङीति। `अत्स्मृदृ?त्वरे'ति सूत्रं चुरादौ `प्रथ प्रख्याने' इति धातौ व्याख्यातम्। असस्मरदिति। अत्र `सन्यतः' इतीत्त्वे प्राप्ते अत्त्वम्। अत एव ज्ञापकादनेकहल्व्यवधानेऽपि लघुपरत्वमित्युक्तं प्राक्। संयोगपरत्वेन लघु त्वाऽभावान्नाऽभ्यासदीर्घः। अददरदिति। `दृ? विदारणे' इत्यस्य रूपम्। अत्रापि `सन्यतः' इत्यस्यापवादोऽयम्। दीर्घमाशङ्क्याह– तपरत्वसामथ्र्यादिति। अतत्वरत्। अपप्रथत्। अमम्रदत्। अतस्तरत्। अपस्पशत्।
359 योगविभागः `आङो यी'त्यत्र लभेरेवानुवृत्तर्यथा स्यादिति। काण्यादीनांवेति वक्तव्यं। काण्यादीनामिति। `कण निमीलने'। रण शब्दे'। `श्रम छेदने'। `हेठ बिबाधायाम्। षट्। `ह्वेञ् स्पर्धायां शब्दे च'। `वण शब्दे'। `लुट (ठ) प्रतिघाते' लुप्लृ छेदने'। लोपीति णिजन्तनिर्देशः। लापयतीति। पाठान्तरम्। लप व्यक्तायां वाचि। केचित्तु लप हेठ इति पठन्ति। न्यासे चत्वारः। `चण दाने'। `लुठ स्तेये' भ्वादिः। चुरादौ दण्डकपाठे भाषार्थकोऽपि। अजिहेठत्।
TBD.