Table of Contents

<<7-1-64 —- 7-1-66>>

7-1-65 आङो यि

प्रथमावृत्तिः

TBD.

काशिका

आङः उत्तरस्य लभेः यकारादिप्रययविषये नुमागमो भवति। आलम्भ्या गौः। आलम्भ्या वडवा। प्राक् प्रत्ययोत्पत्तेः नुमि कृते विहितमदुपधत्वम् इति ऋहलोर् ण्यत् 3-1-124 इति ण्यत्प्रत्ययः, तत्र कृदुत्तरपदप्रकृतिस्वरत्वेन अन्तस्वरितत्वं भवति। यति तु पुनरुत्तरपदाद्युदात्तत्वं स्यात्। आङः इति किम्? लभ्यम्। कथम् अग्निष्टोम आलभ्यः इति? सर्वे विधयश् छन्दसि विकल्प्यन्ते। अथ वा आलभ्यः इत्यत्र नुमि कृते ऽनुषङ्गलोपः क्रियते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

666 आङो यि। `इदितो नुम् धातो'रित्यतो नुमिति, `लभेश्चे'त्यतो लभेरिति चाऽनुवर्तते। तदाह– आङः परस्येति। विवक्षिते इति। `यी' इति विषयसप्तमीति भाष्ये स्पष्टम्। `विवक्षिते' इत्यस्य प्रयोजनमाह–नुमि कृते इति। यत्प्रत्यये विवक्षिते तत्प्रवृत्तेः प्रागेव नुमि कृते अदुपधत्वाऽभावाद्यत्प्रत्ययस्याऽप्रवृत्तेण्र्यदेवेत्यर्थः। `यति परे नु'मित्यर्थे तु अदुपधत्वाद्यदेव स्यान्नतु ण्यदिति भावः। आलम्भ्यो गौरिति। यद्यपि यण्ण्यतोर्न रूपभेदस्तथापि ण्यति कृते `तित्स्वरित'मिति स्वरितत्वम्, यति तु `यतोऽनावः' इत्याद्युदात्तत्वमिति स्वरभेदः फलम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.