Table of Contents

<<7-1-59 —- 7-1-61>>

7-1-60 मस्जिनशोर् झलि

प्रथमावृत्तिः

TBD.

काशिका

मस्जि नशि इत्येतयोरङ्गयोः झलादौ प्रत्यये नुमागमो भवति। मङ्क्ता। मङ्क्तुम्। मङ्क्तव्यम्। नंष्टा। नंष्टुम्। नंष्टव्यम्। झलि इति किम्? मज्जनम्। नशनम्। मस्जेरन्त्यात् पूर्व नुमम् इच्छन्ति अनुषङ्गादिलोपार्थम्। मग्नः। मग्नवन्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

639 नुम् स्यात्. ननंष्ठ. नेशिव, नेश्व. नेशिम, नेश्म. नशिता, नंष्टा. नशिष्यति, नङ्क्ष्यति. नश्यतु. अनश्यत्. नश्येत्. नश्यात्. अनशत्.. षूङ् प्राणिप्रसवे.. 13.. सूयते. सुषुवे. क्रादिनियमादिट्. सुषुविषे. सुषुविवहे. सुषुविमहे. सविता सोता.. दूङ् परितापे.. 14.. दूयते.. दीङ् क्षये.. 15.. दीयते..

बालमनोरमा

347 नुम् स्यादिति। `इदितो नु'मित्यतस्तदनुवृत्तेरिति बावः। ननंष्ठेति। व्रश्चादिषत्वम्। ष्टुत्वम्। प्रणश्यतीति। `उपसर्गादसमासे'इति णत्वम्।

तत्त्वबोधिनी

304 नष्टेति। `नशेर्वा' इति कुत्वमिहन शङ्क्यं, पदान्त एव तद्विधानात्। अन्यथा नष्टं नष्टिरित्यादि न सिध्येत्। प्रणश्यतीति। `उपसर्गादसमासेऽपी'ति णत्वम्।

Satishji's सूत्र-सूचिः

वृत्ति: नुम् स्यात् । When followed by a प्रत्यय: which begins with a झल् letter, the verbal root √मस्ज् (टुमस्जोँ शुद्धौ ६. १५१) as well as √नश् (णशँ अदर्शने ४. ९१) gets the augment नुँम्।

गीतासु उदाहरणम् – नङ्क्ष्यसि derived from √नश् (णशँ अदर्शने ४. ९१). विवक्षा is लृँट्, कर्तरि-प्रयोगः, मध्यम-पुरुषः, एकवचनम्।
अथ चेत्त्वमहंकारान्न श्रोष्यसि विनङ्क्ष्यसि || 18-58||

नश् + लृँट् 6-1-65, 3-3-13
= नश् + ल् 1-3-2, 1-3-3, 1-3-9
= नश् + सिप् 3-4-78, 1-4-101, 1-4-102, 1-4-105
= नश् + सि 1-3-3, 1-3-9
= नश् + स्य + सि 3-1-33

Example continued under 7-2-45.