Table of Contents

<<7-1-30 —- 7-1-32>>

7-1-31 पञ्चम्या अत्

प्रथमावृत्तिः

TBD.

काशिका

पञ्चम्याः भ्यसः युष्मदस्मद्भ्याम् उत्तरस्य अतित्ययम् आदेशो भवति युष्मद् गच्छन्ति। अस्मद् गच्छन्ति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

327 आभ्यां पञ्चम्यां भ्यसोऽत्स्यात्. युष्मत्. अस्मत्..

बालमनोरमा

पञ्चम्या अत्। `युष्मदस्मद्भ्यां ङसोऽ`शित्यतो' युष्मदस्मद्भ्यामित्यनुवर्तते। `भ्यसोऽभ्य'मित्यतो `भ्यस' इति। तदाह-आभ्यामिति। युष्मदस्मद्भ्यामित्यर्थः। युष्मत् अस्मदिति। युष्मद् भ्यस्, अस्मद् भ्यसिति स्थिते भ्यसोऽदादेशः। शेषलोपश्च।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.