Table of Contents

<<7-1-31 —- 7-1-33>>

7-1-32 एकवचनस्य च

प्रथमावृत्तिः

TBD.

काशिका

पञ्चम्या एकवचनस्य युष्मदस्मद्भ्याम् उत्तरस्य अतित्ययम् आदेशो भवति। त्वद् गच्छन्ति। मद् गच्छन्ति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

326 आभ्यां ङसेरत्. त्वत्. मत्..

बालमनोरमा

अथ पञ्चमी। एकवचनस्य च। `युष्मदस्यद्भ्यां ङसोऽश्' इत्यतो `युष्मदस्मद्भ्या'मित्यनुवर्तते, `पञ्चम्या अत्' इति च, तदाह-आभ्यामिति। युष्मस्मद्भ्यामित्यर्थः। अनेकाल्त्वात्सर्वादेशः। `न विभक्तौ' इति तस्य नेत्त्वम्। त्वत् मदिति। युष्मद् अस्, अस्मद् अस् इति स्थिते त्वमादेशयोः कृतयोः ङसेरदादेशे सति पररूपे `शेषे लोपः' इति टिलोपः। अन्त्यलोपपक्षे दकारलोपे सति त्रायाणामकाराणां पररूपमिति भावः। सुवचमिति। लाघवादिति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.