Table of Contents

<<7-1-29 —- 7-1-31>>

7-1-30 भ्यसो भ्यम्

प्रथमावृत्तिः

TBD.

काशिका

युष्मदस्मद्भ्याम् उत्तरस्य भ्यसः भ्यम् इत्ययम् आदेशो भवति। युष्मभ्यं दीयते। अस्मभ्यं दीयते। भ्यमादेशे कृते शेषेलोपे च बहुवचने झल्येत् 7-3-103 इति एत्वं प्राप्नोति, ततङ्गवृत्ते पुनर्वृत्तावविधिर्निष्ठितस्य इति न भवति। केचित् पुनरभ्यमादेशमेत्वनिवृत्त्यर्थं कुर्वन्ति। येषां तु शेषेलोपः टिलोपः, तेषाम् अभ्यमादेश एव। उदात्तनिवृत्तिस्वरश्चादेरेव भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

325 आभ्यां परस्य. युष्मभ्यम्. अस्मभ्यम्..

बालमनोरमा

भ्यसोभ्यम्। भ्यम् अभ्यमिति वा छेदः। तदाद-भ्यस इति। `युष्मदस्मद्भ्यां परस्ये'ति शेषः, `युष्मदस्मद्भ्यां ङसोऽश्' इत्यतस्तदनुवृत्तेः। ननु ब्यमादेशपक्षे `शेषे लोपः' इत्यदो लोपे युष्मभ्यमस्मभ्यमिति मकारादकारो न श्रूयेतेत्यत आह–आद्य इति। लक्ष्यानुरोधादिहाऽन्त्यलोपपक्ष एवाश्रयणीयः। नन्वन्त्यलोपपक्षे दकारस्य लोपे सति `बहुवचने झल्येत्' इत्येत्त्वं स्यादित्यत आह–तत्राङ्गवृत्तेति। `अङ्गवृत्तेः पुनर्वृत्तावविधि'रिति परिभाषयेत्यर्थः। अङ्गेवृत्तं वर्तनं यस्य तत्-अङ्गवृत्तं, तस्मिन् कार्ये प्रवृत्ते सति अन्यस्य अङ्गकार्यस्य वृत्तौ प्रवृत्तिविषये अविधिः=विदिर्नास्तीत्यर्थः। प्रकृते च शेषलोपे अङ्गकार्ये प्रवृत्ते सति, अन्यत् अङ्गकार्यमेत्त्वं न भवतीति भावः। अभ्यम् त्विति। अब्यमादेशस्तु टिलोपपक्षे अन्त्यलोपपक्षे च अनुकूल इत्यर्थः। तत्र अन्त्यलोपपक्षे अभ्यमो झलादित्वाऽभावात्तस्मिन् परे एत्त्वं न। किन्तु पररूपे सति युष्मभ्यम् अस्मभ्यम् इति सिध्यति। टिलोपपक्षे तु अङ्गस्य अदन्तत्वाऽभावादपि एत्त्वं न।

तत्त्वबोधिनी

351 पक्षद्वयेऽपि साधुरिति। नन्वन्त्यलोपपक्षे पररूपं बाधित्वा सवर्णगदीर्घः स्यादकारोच्चारणसामथ्र्याजिति चेदत्राहुः, बहुवचने झल्ये'दित्येत्त्वनिवृत्याऽकारोतच्चारणस्य चरितार्थत्वादिति। यद्यप्यङ्गवृत्तपरिभाषया एत्वं सुपरुहरं, तथापि तस्या अनित्यत्वे इदमप्यकारोच्चारणं ज्ञापकमिति तत्त्वम्।

Satishji's सूत्र-सूचिः

TBD.