Table of Contents

<<7-1-26 —- 7-1-28>>

7-1-27 युष्मदस्मद्भ्यां ङसो ऽश्

प्रथमावृत्तिः

TBD.

काशिका

युष्मदस्मदित्येताभ्याम् उत्तरस्य ङसः अशित्ययम् आदेशो भवति। तव स्वम्। मम स्वम्। शित्करणं सर्वादेशार्थम्। अन्यथा हि आदेशव्यपदेशप्रक्लृप्त्यर्थमादेरेव स्यात्, ततश्च यो ऽचि 7-2-89 इतेतन् न स्यात्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

329 तव. मम. युवयोः. आवयोः..

बालमनोरमा

युष्मदस्माद्भ्यां ङसोऽश्। स्पष्टमिति। युष्मदस्मद्भ्यां परस्य ङसोऽश् स्यादिति सुगममित्यर्थः। सित्त्वात्सर्वादेशः। तव ममेति। युष्मद् अस्, अस्मद् असितिस्थिते मपर्यन्तस्य तवममादेशयोः कृतयोरशादेशे दकारात्पूर्वयोरकारयोः पररूपेऽदो लोपः। अन्त्यलोपपक्षे दकारलोपः, त्रयाणामकाराणां पररूपमिति भावः। युवयोः आवयोरिति। युष्मद् ओस्, अस्मद् ओस् इति स्थिते मपर्यन्तस्य युवावादेशयोः `योऽची'ति दस्य यत्वे पररूपमिति भावः।

तत्त्वबोधिनी

352 युष्मादस्मद्?यां ङसोऽश्। शित्त्वं सर्वादेशार्थम्। अन्यथा हि `आदेः परस्ये'तिस्यात्। न चाऽकारस्याऽकारविधाने वैयथ्र्यम्, आदेशव्यपदेशेन यत्वनिवृत्त्यर्थत्वात्। न चावयवस्यादेशे सत्यपि विभक्तेरनादेशताऽस्त्येवेति वाच्यं, `सर्वे सर्वपदादेशा'इति सिद्धान्तात्। इदमेव शित्त्वं ज्ञापयति `सर्वे सर्वपदादेशाः'इति। अर्थवत्येव स्थान्यादेशभावविश्रान्तिरित्यर्थः। सिच्चङादयस्तु वचनसामथ्र्यादनर्थकस्यापि भवन्तीति मनोरमायां स्थितम्।\त्

Satishji's सूत्र-सूचिः

TBD.