TBD.
ङे इत्यविभक्तिको निर्देशः। ङे इत्येतस्य प्रथमयोश्च विभक्त्योः प्रथाद्वितीययोः युष्मदस्मद्भ्याम् उत्तरयोः अम् इत्ययम् आदेशो भवति। तुभ्यं दीयते। मह्यं दियते। प्रथमयोः त्वम्। अहम्। युवाम्। आवाम्। यूयम्। वयम्। त्वाम्। माम्। युवाम्। आवाम्।
TBD.
313 युष्मदस्मद्भ्यां परस्य ङे इत्येतस्य प्रथमाद्वितीययोश्चामादेशः..
अथ युष्मदस्मच्छब्दयो प्रक्रियां दर्शयति–ङे प्रथमयोरम्। `युष्मदस्मद्भ्यां ङसोऽश्' इत्यतो `युष्मदस्मद्भ्या'मित्यनुवर्तते। परशब्दोऽध्याहर्तव्यः। `ङे' इति लुप्तषष्ठीकं पृथक्पदम्। प्रथमयो'रिति प्रतमाद्वितीयाविभक्त्योर्लाक्षणिकमिति भाष्यं। तदाह युष्मदस्मद्भ्यामित्यादिना। सोरमादेशे कृते `न विभक्तौ' इति मस्य नेत्त्वम्। युष्मद् अम्, अस्मद् अम् इति स्थितम्। अधिकृत्येति। `कार्याणि वक्ष्यन्ते' इति शेषः।
342 ङे प्रथमयोरम्। `युष्मदस्मभ्द्यां ङसोऽ'सित्यतो `युष्मदस्मभ्द्या'मित्यनुवर्तते। `ङे'इति पृथक्पदं लुप्तषष्ठीकम्। `प्रथमयो'रिति द्विवचनबलेन प्रतमाशब्दः प्रथमाद्वितीयभयार्थके इत्याशयेन व्याचष्टे— युष्मदस्मद्भ्यां परस्य ङे इत्येतस्येत्यादिना। `ङेसुटो'रिति सुवचम्।
TBD.