Table of Contents

<<7-1-24 —- 7-1-26>>

7-1-25 अद्ड् डतराऽदिभ्यः पञ्चभ्यः

प्रथमावृत्तिः

TBD.

काशिका

डतरादिभ्यः परयोः स्वमोः अद्डित्ययम् आदेशो भवति। कतरत् तिष्ठति। कतरत् पश्य। कतमत् तिष्ठति। कतमत् पश्य। इतरत्। अन्यतरत्। अन्यत्। पञ्चभ्यः इति किम्? नेमं तिष्ठति। नेमं पश्य। डित्करणं किम्? कतरत् तिष्ठति इत्यत्र पूर्वसवर्नदीर्घो मा भूत्। इह तु कतरत् पश्य इति स्थनिवद्भावादमि पूर्वंत्वेन अपि सिध्यति। एवं तर्हि तकारादेश एव कस्मान् न विधीयते? हे कतरतिति सम्बुद्धेर् लोपो मा भूत्। अपृक्तश्चेदमो दोषो निवृत्ते डतरादिषु। अड्डित्त्वाड् डतरादीनां न लोपो न अपि दीर्घता।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

242 एभ्यः क्लीबेभ्यः स्वमोः अद्डादेशः स्यात्..

बालमनोरमा

313 अद्ड्डतरादिभ्यः। `अद्ड्-डतरादिभ्य' इति छेदः। दस्य ष्टुत्वेन डकारः, डस्य संयोगान्तलोपश्च आदेशस्वरूपावगतये न कृत इति कैयटः। डतर, डतम, अन्य, अन्यतर, इतर इति डतरादयः सर्वादिगणपठिताः। अत्र डक्त्रडतमौ प्रत्ययौ। अतस्तदन्तग्रहणं। `स्वमोर्नपुंसका'दिति सूत्रमनुवर्तते तदाह–एभ्य इत्यादिना।

तत्त्वबोधिनी

275 अद्ड्डतरादिभ्यः। पञ्चभ्य इति किम्?, नेमं तिष्ठति। नेमं पश्य। डतरादयो `डतरडतमेतरान्यतरे'ति सर्वादिषु पठिताः। अद्डादेशः स्यादिति। जिघृक्षितादेशस्वरूपप्रतिपादमाय ष्टुत्वं न कृतम्।

Satishji's सूत्र-सूचिः

153) अद्ड् डतरादिभ्यः पञ्चभ्यः 7-1-25

वृत्ति: एभ्यः क्लीबेभ्यः स्वमोरद्ड् आदेशः स्यात्। The affixes “सुँ” and “अम्”, get “अद्ड्” as their replacement, when following the five pronouns (listed under 1-1-27) beginning with “डतर” when used in the neuter. Note: The five pronouns are “डतर”, “डतम”, “अन्य”, “अन्यतर” and “इतर”। Since the first two (“डतर”, “डतम”) are affixes they refer to words that end in these two affixes.

गीतासु उदाहरणम् – श्लोकः 2.6

कतर + सुँ = कतर + अद्ड् 7-1-25 – Example continued under sutras below.