Table of Contents

<<6-4-94 —- 6-4-96>>

6-4-95 ह्लादो निष्ठायाम्

प्रथमावृत्तिः

TBD.

काशिका

ह्लादो ऽङ्गस्य उपधायाः ह्रस्वो भवति निष्ठायां परतः। प्रह्लन्नः। प्रह्लन्नवान्। निष्ठायाम् इति किम्? प्रह्लादयति। ह्लादः इति योगविभागः क्रियते, क्तिन्यपि यथा स्तात्, प्रह्लत्तिः इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

880 ह्लादो निष्ठायाम्। ह्यस्वः स्यादिति। सेषपूरणमिदम्। `खचि ह्यस्वः' इत्यतस्तदनुवृत्तेरिति भावः। प्रह्लन्न इति। `ह्लादी सुखे'। क्तः। `\उfffदाईदितः' इति नेट्। `रदाभ्यांट मिति नत्वम्।

तत्त्वबोधिनी

724 प्रह्लन्न इति। ह्लादी सुखे। ईदित्त्वादिडभावे `रदाभ्या'मिति नत्वम्।

Satishji's सूत्र-सूचिः

TBD.