TBD.
चिण्परे णमुल्परे च णौ परतः मिताम् अङ्गानाम् उपधायाः दीर्घो भवति अन्यतरस्यां। अशमि, अशामि। अतमि, अतामि। शमंशमम्, शामंशामम्। तमन्तमम्, तामन्तामम्। दीर्घग्रहणं किं, न ह्रस्वविकल्प एव विधीयते? न एवं शक्यम्, शमयन्तं प्रयुङ्क्ते इति द्वितीये णिचि ह्रस्वविकल्पो न स्यात्। णिलोपस्य स्थानिवद्भावाद् दीर्घविधौ त्वजादेशो न स्थानिवत्। शयमन्तं प्रयुक्तवान्। अशमि, अशामि। शमंशमम्, शामंशामम्। शंशमयतेः अशंशमि, अशंशामि। शंशमंशंशमम्, शंशामंशंशामम्। यो ऽसौ णौ णिर्लुप्यते, यश्च यङ्कारः, तयोर् दिर्घविधौ आदेशो न स्थानिवद् भवति इति अस्थानिवद्भावात् दीर्घः सिद्धो भवति। ह्रस्वविकल्पे तु विधीयमाने स्थानिवद्भावः स्यात्। णिण्यन्ते यङ्ण्यन्ते त्वसिद्धिरेव। व्याश्रयत्वादसिद्धत्वम् अपि न अस्ति। णौ हि णियङोर् लोपः, चिण्णमुल्परे णावङ्गस्य दीर्घत्वम्।
TBD.
–
587 चिण्णमुलोः। `दोषो णौ' इत्यतो णाविति, `ऊदुपधाया गोहः' इत्यस्मादुपधाया इति, `मितां ह्यस्वः' इत्यतो मितामिति चानुवर्तते। तदाह– चिण्परे इत्यादिना। नन्विह दीर्घ ग्रहणं व्यर्थं, `चिण्णमुलोरन्यतरस्या'मित्येतावतैव `मितां ह्यस्वः' इति पूर्वसूत्रादनुवृत्तस्य ह्यस्वस्यविकल्पे दीर्घविकल्पस्य सिद्धेरित्यत आह–प्रकृत इत्यादि। कुत इत्यत आह– ण्यन्ताण्णाविति। शमदातोण्र्यन्ताण्णौ पूर्वणेर्लोपे लुटि तासि ण्यन्तस्याऽजन्तत्वाच्चिण्वदिटि तस्याऽऽभीयत्वेनाऽसिद्धतया `अनिटी' ति निषेधाऽभावाण्णिलोपे दीर्घविकल्पे सति शमिता शामितेति रूपद्वयमिष्यते। ह्यस्वविकल्पस्य विधौ तु ह्यस्वविकल्पो न स्यात्, प्रथमणिलोपस्य `अचः परस्मि'न्निति स्थानिवत्त्वेन व्यवहिततया चिण्परकणिपरकत्वाऽभावादित्यर्थः। दीर्घविकल्पविधौ तु न दोष इत्याह– दीर्घविधाविति। दीर्घविकल्पविधौ हि प्रथमस्य णिचो लोपो न स्थानिवत्, दीर्घविधौ स्थानिवत्त्वनिषेधात्, अतोऽत्र दीर्घविकल्पः सिध्यति। ह्यस्वविधौ तु प्रथमणिलोपस्य स्थानिवत्त्वं दुर्वारं, तत्र स्थानिवत्त्वनिषेधाऽभावादित्यर्थः। भाष्ये त्विति। न पदान्तसूत्रभाष्ये तु `पूर्वत्रासिद्धे न स्थानिवदि'त्येव सिद्धत्वान्न पदान्तसूत्रे द्विर्वचनसवर्णानुस्वारदीर्घजश्चरः प्रत्याख्याताः। `सुद्ध्युपास्य' इत्यत्र `अनचि चे'ति द्विर्वचनस्य, शिण्ढीत्यत्र `नश्चे'त्यनुस्वारस्य, `अनुस्वारस्य ययी'ति परसवर्णस्य च, प्रतिदीब्न इत्यत्र `हलि चे'ति दीर्घस्य, सग्धिरित्यत्र `झलां जश् झशी'ति जश्त्वस्य, जक्षतुरित्यत्र `खरि चे'ति चत्र्वस्य च पूर्वत्राऽसिद्धीयत्वादित्यर्थः। ननु ण्यन्ताण्णौ `चिण्णमुलो'रिति दीर्घे कर्तव्ये प्रथमणिलोपस्य स्थानिवत्त्वं दुर्वारम्, `चिण्णमुलोः' इति दीर्घस्य पूर्वत्रासिद्धीयत्वाऽभावात्। ततश्च प्रथमणिचा व्यवहितत्वाद्दीर्घाऽनापत्तिः। एवं च तत्र दीर्गे कर्तव्ये स्थानिवत्त्वनिवारणाय दीर्घग्रहणस्यावश्यकत्वात्कथं दीर्घग्रहणप्रत्याख्यातमित्यताअह– णावितीति। `चिण्णमुलो'रिति दीर्घविधौ चिण्परे णमुल्परे च `णौ' इत्यत्र णाविति णित्वजातिप्रधानो निर्देशः। चिण्णमुल्परकणित्वजातौ परत इति लभ्यते। णित्वजातिश्च णिद्वयेऽस्तीति प्रथमणेः स्थानिवत्त्वेऽपि दीर्घो निर्बाध इति `न पदान्त'सूत्रे दीर्गग्रहणप्रत्याख्यानभाष्यस्याशय इत्यर्थः। शामिता शमितेति। शमधातोण्र्यन्ताल्लुटि तासि चिण्वदिटि दीर्गविकल्पः। शमियितेति। चिण्वत्त्वाऽभावे वलादिलक्षणे इटि रूपम्। यङन्तादिति। शमधातोर्यङि शंशम्येत्येतस्माद्धेतुमण्णौ `यस्य हलः' इति यकारलोपे अतो लोपे शंशमीत्यस्मात्कर्मलकारे णिलोपे `शंशम्यते' इति रूपमित्यर्थः। शंशामिता शंशमितेति। `चिण्मुलो'रिति दीर्घविकल्पः। शंशमयितेति। चिण्वत्त्वाऽबावे वलादिलक्,णे इटि रूपम्। भाष्यमते त्विति। `न पदान्त'सूत्रे दीर्गग्रहणप्रत्याख्यानपरभाष्यमते त्वित्यर्थः। यङन्तादिति। `ण्यन्ता'दिति शेषः। यङन्ताण्णिचि यलोपे अल्लोपे च कृते `शंशमी'त्यस्माल्लुटि तासि चिण्वदिटि कृते तस्याऽसिद्धत्वाण्णिलोपे `शंशमिते'त्यत्र अल्लोपस्य स्थानिवत्त्वेन णिच्परकत्वाऽबावात् `चिण्णमुलो'रिति दीर्घो नास्ति, भाष्यमते `न पदान्त'सूत्रे दीर्घग्रहणाऽभावेन स्थानिवत्त्वनिषेधाऽभावादित्यर्थः। शम्यते मुनिनेति। अकर्मकत्वाद्भावे ल इति भावः।
483 चिण्णमुलोः। शामितेत्यादौ `जनीजृ?'षित्यादिना मित्त्वेन मितामुपधाया नित्यं ह्यस्वे प्राप्ते दीर्घोऽनेन विकल्प्यते। ण्यन्ताण्णाविति। णिलोपस्य स्थानिवत्त्वेन व्यवधानादिति भावः। दीर्घः सिध्यतीति। `न पदान्ते' ति निषेधादित्यर्थः। ननु त्रिपादीस्थेदीर्घे कर्तव्ये स्थानिवत्त्वाऽभावः `पूर्वत्रासिद्ध' मित्यनेनैव सिद्ध इति दीर्घग्रहणस्योपयोगाऽभावेऽपि ण्यन्ताण्णौ `चिण्णमुलो'रिति दीर्घे कर्तव्ये स्थानिवद्भावनिवारणाय दीर्घग्रहणमावश्यकमित्यत आह– जातिपरो निर्देश इति। इदं मास्त्विति। ह्यस्वविकल्पेनाऽपीष्टं सिध्यतीति भावः। वस्तुतस्तु `चिण्णमुलो'रिति सूत्रे दीर्घग्रहणं कर्तव्यमेव। तथाहि— `हेडृ अनादरे' घटादिः। मितां ह्यस्वे कर्तव्य एच इक्। हिडयति। अत्र चिण्णमुलोः कृतयोह्र्यस्वे विकल्प्यमाने अहिडि अहेडि इति स्यात्। दीर्घे तु–अहिडि अहीडीति भवति। एतच्चात्रैव सूत्रे कैयटे स्पष्टम्। शंशामितेत्यादि। चिणिअशंमि। अशंशामि। णमुलि, शंशमं–शंशमं। शंशामं-शंशाममित्यादि द्रष्टव्यम्। दीर्घोनास्तीति। यङोऽल्लोपस्य स्थानिवत्त्वेन णिच्परत्वाऽभावादुपधादीर्घस्योपधावृद्धेश्चाऽप्रवृत्तेः। तथा च फलभेदाद्दीर्घग्रहणप्रत्याख्यानं न युज्यत इति भावः। शम्यते मुनिनेति। अकर्मकत्वाद्भावे लः।
वृत्ति: चिण्परे णमुल्परे च णौ मितामुपधाया दीर्घो वा स्यात्। There is an optional elongation of the penultimate vowel of a verbal root which is मित् (has मकार: as a इत्) and is followed by the affix “णि” which in turn is followed by either the affix “चिण्” or “णमुँल्”।
उदाहरणम् – शामिष्यते/शमिष्यते/शमयिष्यते derived from √शम् (शमुँ उपशमे ४. ९८). विवक्षा is लृँट्, कर्मणि/भावे प्रयोगः (हेतुमति), प्रथम-पुरुषः, एकवचनम्।
शम् + णिच् 3-1-26
= शाम् + णिच् 7-2-116
= शम् + णिच् 6-4-92. Note: √शम् is a मित् as per the गण-सूत्रम् – जनीजॄष्क्नसुरञ्जोऽमन्ताश्च।
= शम् + इ 1-3-3, 1-3-7, 1-3-9
= शमि। “शमि” gets धातु-सञ्ज्ञा by 3-1-32
शमि + लृँट् 3-3-13
= शमि + ल् 1-3-2, 1-3-3, 1-3-9
= शमि + त 3-4-78, 1-3-13, 1-4-100, 1-4-101, 1-4-102, 1-4-108
= शमि + ते 3-4-79
= शमि + स्य + ते 3-1-33
= शामि/शमि + इट् स्य + ते 6-4-62, 1-1-46, 6-4-93
= शामि/शमि + इस्य + ते 1-3-3, 1-3-9
= शाम्/शम् + इस्य + ते 6-4-22, 6-4-51
= शामिष्यते/शमिष्यते 8-3-59
When 6-4-62 is not applied the form is शमयिष्यते as follows:
शमि + लृँट् 3-3-13
= शमि + ल् 1-3-2, 1-3-3, 1-3-9
= शमि + त 3-4-78, 1-3-13, 1-4-100, 1-4-101, 1-4-102, 1-4-108
= शमि + ते 3-4-79
= शमि + स्य + ते 3-1-33
= शमि + इट् स्य + ते 7-2-35
= शमि + इस्य + ते 1-3-3, 1-3-9
= शमे + इस्य + ते 7-3-84
= शमयिस्यते 6-1-78
= शमयिष्यते 8-3-59
Thus there are a total of three forms – शामिष्यते/शमिष्यते/शमयिष्यते।