Table of Contents

<<6-4-88 —- 6-4-90>>

6-4-89 ऊदुपधाया गोहः

प्रथमावृत्तिः

TBD.

काशिका

गोहो ऽङ्गस्य उपधाया ऊकारादेशो भवति अजादौ प्रत्यये परतः। निगूहति। निगूहकः। साधुनिगूही। निगूहंनिगूहम्। निगूहन्ति। गूहो वर्तते। उपधायाः इति किम्? अलः अन्त्यस्य मा भूत्। गोहः इति विकृतग्रहणं विषयार्थम्। यत्र अस्य एतद् रूपं तत्र एव यथा स्यात्। इह मा भूत्, निजुगुहतुः। निजुगुहुः। अयादेशप्रतिषेधार्थं च केचिदिच्छन्ति। निगूह्य गतः इत्यूत्वस्य असिद्धत्वाद् ल्यपि लघुपूर्वादिति णेरयादेशः स्यात्। व्याश्रयत्वादेव असिद्धत्वम् अत्र न अस्ति, णावूत्वं, ण्यन्तस्य च ल्यप्ययादेश इति। अचि इत्येव, निगोढा। निगोढुम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

201 ऊदुपधायाः। `गोह'इति कृतलघूपधगुणस्य गुहेर्निर्देशः। ततश्च गुणविषय एवेदं भवति। अचिश्नुधात्वित्यतोऽनुवृत्तस्य अचीत्यस्य अङ्गाक्षिप्तप्रत्ययविशेषमत्वात्तदादिविधिः। तदाह– गुह उपधाया इत्यादिना। गुणहेताविति। गुणं प्रति परनिमित्तभूत इत्यर्थः। गुणापवादः। जुगूह। गुणहेताविति किम् ?। जुगुहतुः जुगुहुः। जुगुहे जुगुहाते जुगुहिरे। जुगूहिथ। जुगोढ। ढत्वधत्वष्टुत्वढलोपाः। जुगुहथुः जुगुह। जुगुहिषे–जुघुक्षे। ढत्वभष्भावकत्वषत्वानि। जुगुहाथे जुगुहिध्वे–जुगुढ्वे। जुगूह। जुगुहिव-जुगुह्व जुगुहिम–जुगुहृ। जुगुहे। जुगुवहिहे–जुगुह्वहे। जुगुहिमहे-जुगुहृहे। इति लिटि रूपाणि सिद्धवत्कृत्य लुटि इट्पक्षे ऊत्वे रूपमाह– गूहितेति। इडभावे अजादप्रत्ययाऽभावादूत्त्वाऽभावे गुणे ढत्वधत्वष्टुत्वलोपेषु रूपमाह– गोढेति। लृटि स्ये इट्पक्षे ऊत्त्वे रूपमाह– गूहिष्यतीति। इडभावे तु गुणढत्वभष्भावकत्वषत्वेषु रूपमाह–घोक्ष्यतीति। गूहिष्यते, घोक्ष्यते इत्यप्युदाहार्यम्। गूहतु। गूहताम्। अगूहत्। अगूह। गूहेदिति। `गूहेते'त्यपि ज्ञेयम्। गुह्रादिति। आशीर्लिङि अजादिप्रत्ययाऽभावादूत्त्वं न। कित्त्वान्न गुणः। लुङि इट्पक्षे सिज्लोपे ऊत्त्वे रूपमाह– अगूहीदिति। अगूहिष्टाम् अगूहिषुरित्यादि। इडभावे क्स इति। इगुपधशलन्तत्वादिति भावः। अघुक्षदिति। ढत्वभष्भावकत्वषत्वानि। अधुक्षताम् अघुक्षन्नित्यादि।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.