Table of Contents

<<6-4-89 —- 6-4-91>>

6-4-90 दोषो णौ

प्रथमावृत्तिः

TBD.

काशिका

दोषः उपधाया ऊकारः आदेशो भवति णौ परतः। दूषयति, दुषयतः, दूषयन्ति। विकृतग्रहणम् प्रक्रमाभेदार्थम्। पूर्वत्र हि गोहः इत्युक्तम्। णौ इति किम्? दोषो वर्तते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

431 दोषो णौ। `ऊदुपधाया' इत्यनुवर्तते। `दुष वैकृत्ये' इति श्यन्विकरणः। तस्य कृतलघूपधगुणस्य निर्देशः। ततश्च गुणविषयकमेवेदम्। दुष्यतेरुपधाया ऊत्स्यादिति। `णा'विति शेषः। दूषयतीति। लघूपधगुणापवाद ऊत्। `दुषो णा'वित्येव सुवचम्।

तत्त्वबोधिनी

375 दोषो णौ। दुष वैकृत्ये। दिवादिः। णौ किम् ?। दोषः।

Satishji's सूत्र-सूचिः

TBD.