Table of Contents

<<6-4-89 —- 6-4-91>>

6-4-90 दोषो णौ

प्रथमावृत्तिः

TBD.

काशिका

दोषः उपधाया ऊकारः आदेशो भवति णौ परतः। दूषयति, दुषयतः, दूषयन्ति। विकृतग्रहणम् प्रक्रमाभेदार्थम्। पूर्वत्र हि गोहः इत्युक्तम्। णौ इति किम्? दोषो वर्तते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

431 दोषो णौ। `ऊदुपधाया' इत्यनुवर्तते। `दुष वैकृत्ये' इति श्यन्विकरणः। तस्य कृतलघूपधगुणस्य निर्देशः। ततश्च गुणविषयकमेवेदम्। दुष्यतेरुपधाया ऊत्स्यादिति। `णा'विति शेषः। दूषयतीति। लघूपधगुणापवाद ऊत्। `दुषो णा'वित्येव सुवचम्।

तत्त्वबोधिनी

375 दोषो णौ। दुष वैकृत्ये। दिवादिः। णौ किम् ?। दोषः।

Satishji's सूत्र-सूचिः

TBD.