TBD.
निष्ठायां सेटि परतो णेर्लोपो भवति। कारितम्। हारितम्। गणितम्। लक्षितम्। सेटि इति किम्? संज्ञपितः पशुः। सेड्ग्रहणसामर्थ्यादिह पूर्वेण अपि न भवति। सनीवन्तर्ध 7-2-49) इति ज्ञपेरिटि विकल्पिते यस्य विभाषा (*7,2.15 इति निष्ठायां प्रतिषेधः। अथ पुनः एकाचः इति तत्र अनुवर्तते, तदा नित्यम् अत्र भवितव्यम् एव इडागमेन इति सेड्ग्रहणम् अनर्थकम्? तत् क्रियते कालावधारणार्थम्, इडागमे कृते णिलोपो यथा स्यात्। अकृते हि तत्र णिलोपे सति कारितम् इत्यत्र एकाच उपदेशे ऽनुदात्तात् 7-2-10 इति इटः प्रतिषेधः प्रसज्येत।
TBD.
827 णेर्लोपः. भावितः. भावितवान्. दृह हिंसायाम्..
864 निष्ठायां सेटि। णेर्लोपः स्यादिति। सेषपूरणमिदम्। `णेरनिटी'त्यतो णेरिति, `आतो लोपः' इत्स्माल्लोप इति चानुवर्तते इति भावः। `अनिटी' ति निषेधादप्राप्ते आरम्भः। `टु ओ \उfffदिआ गतिवृद्ध्योः' अस्मात् क्ते आह \उfffदाईदित इति नेडिति। संप्रसारणमिति। यजादित्वादिति भावः। संप्रासरणे सति पूर्वरूपे `हलः' इति दीर्घे `ओदितश्चे'ति निष्ठानत्वे रूपमाह–शून इति। यद्यपि मूले `ओदितश्चे'त्यत्र उच्छून इत्युदाह्मतमेव, तथापि विशेषविवक्षया पुनरिहोपन्यासः। अत्र अलविधित्वेऽपि `हल' इत्यारम्भसामाथ्र्यादेव पूर्वरूपस्य संप्रसारणत्वम्। न च नित्यत्वात्संप्रसारणपूर्वरूपयोः `श्र्युकः कितीत'त्येव निषेधसिद्धेः \उfffदिआग्रहमं व्यर्थमिति वाच्यम्, `श्र्युकः किती'त्यत्र `एकाच उपदेशे' इत्यत उपदेशे इत्यनुवृत्तेः। तथा च उपेदशे उगन्तत्वाऽभावान्निषेधाऽप्राप्तौ \उfffदिआग्रहणम्। अत एव `स्तीर्त्वे'त्यादौ उपदेशे उगन्तत्वमादाय इण्निषेधसिद्धिरित्यलम्। ईदित उदाहरति– दीप्तैति। `दीपी दीप्तौ' दिवादिः। ईदित्त्वान्नेट्। गूढ इति। ऊदित्त्वेन वेट्कत्वात् `यस्य विभाषे'ति नेट्। ढत्वधत्वष्टुत्वढलोपदीर्घाः। वनु वतः। तनु तत इति। `उदितो वे'ति क्त्वायां वेट्कत्वात् `यस्य विभाषे'ति नेट्। `अनुदात्तोपदेशे'ति नकालोपः। पतेः सनीति। `पत्लृ गतौ' अस्य `तनिपतिदरिद्राणानुपसङ्ख्यान'मिति सनि वेटक्त्वात् `यस्य विभाषे'ति निष्ठायामिण्निषेधे प्राप्ते इत्यर्तः। `पतित' शब्दे इटं साधयितुं युक्त्यन्तरमिति वक्तव्यम्, तत्तु न संभवति। एषां `सेऽसिचि कृतचृतछृदतृदनृतः' इति सकारादौ वेट्कतया `यस्य विभाषे'त्येव निष्ठायां नित्यमिण्निषेधासिद्धेः। ततश्च एषामीदित्करणात् `यस्य विभाषे'ति इण्निषेधस्य अनित्यत्वं विज्ञायते। एवं च कृतादीनां `यस्य विभाषे'ति इण्निषेधस्याऽभावसंभावनायां `\उfffदाईदितः' इण्निषेधार्थमीदित्त्वमर्थवत्।तथा च पतितशब्दे `यस्य विभाषे'त्यनित्यत्वान्न भवतीत्यर्थः। तेनेति। `यस्य विभाषे'त्यस्याऽनित्यत्वज्ञापनेनेत्यर्थः। धावितमिति। `स्वरतिसूती' धूञो वेट्कत्वेऽपि `यस्य विभाषे'ति निष्ठायामिण्निषेधः स्यादित्यत आह– यस्य विभाषेत्यत्रेति।
709 संप्रसारणमिति। `वचिस्वपी'त्यनेन। शून इति। टुओ\उfffदिआ गतिवृद्ध्योः। `हलः' इति दीर्घः। `ओदितश्च' इति निष्ठातस्य नः। गूढ इति। `यस्य विभाषे'ति नेट्। ढत्वधत्वष्टुत्वढलोपदीर्घाः। वतः तत इति। `अनुदात्तोपदेशे'ति नलोपः। सनि केट्कत्वादिति। `तनिपतिदरिद्रातिभ्यः सनो वा इड्वाच्यः' इति वचनात्। कृन्तत्यादीनामिति। `\उfffदाईदित' इति निष्ठायामनिट्त्वार्थं कृती छेदने, चृती हिंसाग्रन्थनयोः, नृती गात्रविक्षेपे इत्यतेषामीदित्त्वकरणेन `यस्य विभाषे'त्यस्याऽनित्यत्वज्ञापनाद्वा पतित इति सिद्धमित्यर्थः।
वृत्तिः णेर्लोपः । The affix ‘णि’ is elided when followed by a निष्ठा affix (ref. 1-1-26) which has taken the augment ‘इट्’।
उदाहरणम् – प्रातिपदिकम् “मोहित” (ref. गीता 7-13) derived from a causative form of the verbal root √मुह् (मुहँ वैचित्ये ४. ९५).
मुह् + णिच् 3-1-26
= मुह् + इ 1-3-3, 1-3-7, 1-3-9
= मोहि 7-3-86. ‘मोहि’ gets the धातु-सञ्ज्ञा by 3-1-32
मोहि + क्त 3-2-102, 3-4-70
= मोहि + त 1-3-8, 1-3-9
= मोहि + इट् त 7-2-35, 1-1-46
= मोहि + इत 1-3-3, 1-3-9
= मोह् + इत 6-4-52 = मोहित । “मोहित” gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.