TBD.
क्यस्य हल उत्तरस्य विभाषा लोपो भवति आर्धधातुके। समिध्यिता, समिधिता। दृषद्यिता, दृषदिता। समिधमात्मनः इच्छति, समिधम् इव आत्मानम् आचरति इति वा क्यच्क्यङौ यथायोगम् कर्तव्यौ।
TBD.
727 हलः परयोः क्यच्क्यङारेलोपो वार्धधातुके. आदेः परस्य. अतो लोपः. तस्य स्थानिवत्त्वाल्लघूपधगुणो न. समिधिता, समिध्यिता..
485 क्यस्य विभाषा। `यस्य हलः' इत्यतो हल इति पञ्चम्य्नतमनुवर्तते। `आद्र्धधातुके' इत्यधिकृतम्। तदाह– हलः परयोः क्यच्क्यङोरिति। क्यष् तु नात्र गृह्रते, `लोहितडाज्भ्यः क्यष्वचन'मिति वक्ष्यमाणतया हलन्तात्तदभावात्। अन्तलोपमाशङ्क्याह- - आदेः परस्येति. तथा च मिध् अ इता इति स्थिते आह– अतो लोप इति। तथा च समिध् इता इति स्थिते लघूपधगुणमाशङ्क्याह– तस्य स्थानिवत्त्वादिति। क्यच्सूत्रे `मान्ताव्ययेभ्यः प्रतिषेधः' इति वार्तिकम्। मान्तेभ्योऽव्ययेभ्यश्च प्रतिषेध इत्यर्थे पुत्रमात्मन इच्छति पुत्रीयतीत्यत्र न स्यात्, पुत्राविच्छतीत्यादेव स्यात्। मान्तानि अव्ययानि मान्ताव्ययानि तेभ्य इत्यर्थे स्वरिच्छतीत्यत्र क्यचः प्रतिषेधो न स्यात्। अतस्तद्वार्तिकं विवृण्वन्नाह- - मान्तप्रकृतिकेति।
–
वृत्तिः हलः परयोः क्यच्क्यङोर्लोपो वार्धधातुके । When preceded by a consonant, the affix “क्य” (क्यच् or क्यङ्) takes लोपः optionally when followed by a आर्धधातुकम् affix. Note: As per the परिभाषा-सूत्रम् 1-1-54 आदेः परस्य only the beginning यकारः of the affix takes लोपः।
उदाहरणम् – आत्मनो वाचमेषिष्यति = वाचिष्यति/वाच्यिष्यति derived from the नाम-धातुः “वाच्य”। (See 1-4-15 for derivation of “वाच्य”।)
The विवक्षा is लृँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
लोप-पक्षे
First, let us consider the case when the optional rule 6-4-50 is applied:
वाच्य + लृँट् 3-3-13
= वाच्य + ल् 1-3-2, 1-3-3, 1-3-9
= वाच्य + तिप् 3-4-78, 1-3-78
= वाच्य + ति 1-3-3, 1-3-9
= वाच्य + स्य + ति 3-1-33
= वाच्य + इट् स्य + ति 7-2-35, 1-1-46
= वाच् य् अ + इस्य + ति 1-3-3, 1-3-9
= वाच् अ + इस्य + ति 6-4-50, 1-1-54
= वाच् + इस्य + ति 6-4-48
= वाचिष्यति 8-3-59
लोपाभाव-पक्षे
Now, let us consider the case when the optional rule 6-4-50 is not applied:
वाच्य + इस्य + ति
= वाच्य् + इस्य + ति 6-4-48
= वाच्यिष्यति 8-3-59