Table of Contents

<<6-4-171 —- 6-4-173>>

6-4-172 कार्मस् ताच्छील्ये

प्रथमावृत्तिः

TBD.

काशिका

कार्मः इति ताच्छील्ये टिलोपो निपात्यते। कर्मशीलः कार्मः। शीलम्, छत्रादिभ्यो णः 4-4-61) इति णप्रत्ययः। यद्येवं किम् अर्थम् इदम्, नस् तद्धिते (*6,4.144 इत्येव टिलोपः सिद्धः? सत्यम् एतत्। ज्ञापकार्थम् तु। एतज् ज्ञापयति ताच्छीलिके णे ऽण्कृतानि भवन्ति इति। तेन चौरी, तापसी इति णान्तादपि ईकारः सिद्धो भवति। ताच्छील्ये इति किम्? कर्मणः इदं कार्मणम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1592 कार्मस्ताच्छील्ये। तच्छीसं यस्य स तच्छीलः, तस्य भावस्ताच्छील्यम्। तस्मिन्वाच्ये `कार्म' इति भवतीत्यर्थः। णप्रत्यये परे टिलोपः स्यादिति यावत्। तदाह–टिलोपो निपात्यत इति। `णो।ञपो'त्यनन्तरम् `इति ज्ञापनार्थमिद'मिति शेषः। अत्र टिलोपविधिर्हि `अन्' इति प्रकृतिभावनिवृत्त्यर्थः। ततश्च अणि विहतस्य प्रकृतिभावस्य णप्रत्यये परतः प्रतिषेधादण्कार्यकारित्वं णप्रत्ययस्य ज्ञाप्यत इति भावः। तेनेति। चुरा शीलमस्याः, तपः शीलमस्या इति विग्रहे चुरातपःशब्दाभ्यां छत्रादित्वाण्णप्रत्यये सति तदन्ताभ्यामणन्तकार्ये ङीपि चौरी तापसीति सिद्धमित्यर्थः। कार्मणा इति। `तस्येद'मित्यणि `कार्मस्ताच्छील्ये' इत्यस्याऽप्रवृत्त्या `अन्' इति प्रकतिभावान्न टिलोप इति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.