Table of Contents

<<6-4-170 —- 6-4-172>>

6-4-171 ब्राह्मो ऽजातौ

प्रथमावृत्तिः

TBD.

काशिका

योगविभागो ऽत्र क्रियते। ब्राह्मः इत्येतदपत्याधिकारे ऽपि सामर्थ्यादपत्यादन्यत्राणि टिलोपार्थं निपात्यते। ब्राह्मो गर्भः। ब्राह्ममस्त्रम्। ब्राह्मं हविः। ततः अजातौ। अपत्ये इत्येव। अपत्ये आतावणि ब्रह्मणष् टिलोपो न भवति। ब्रह्मणो ऽपत्यं ब्राह्मणः। अपत्ये इत्येव, ब्राह्मी ओषधिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1142 ब्राआहृओ जातौ। ब्राहृन्शब्दादपत्ये अणि `न मपूर्वोऽपत्ये' इति प्रकृतिभावनिषेधो जातावेवेत्यर्थः फलति। तथा सति ब्राहृणो।ञपत्यं ब्राआहृणैति जातिविशेषे न सिध्येत्,`न मपूर्वः' इति प्रकृतिभावनिषेधे सति `नस्तद्धिते' इति टिलोपस्य दुर्वारत्वात्। किंच ब्राहृआ देवता अस्य ब्राआहृं हविरिति न सिध्येत्, `न मपूर्वं' इति प्रकृतिभावनिषेधस्य जातावेवेति नियमितत्वेन अनिति प्रकृतिभावाट्टिलोपाऽसंभवात्। अत आह–योगविभाग इति। `ब्राआहृ' इत्येकं सूत्रम्। तत्र `इनण्यनपत्ये' इत्यतोऽनपत्येऽणीत्यनुवर्तते। तदाह–ब्राआहृ इति निपात्यते अनपत्ये।ञणीति। तथाच ब्राहृन्शब्दादनपत्येऽणि अनिति प्रकृतिबावनिवृत्तेष्टिलोपः फलित इति मत्वोदाहरति–ब्राआहृं हविरिति। ब्राहृआ देवता अस्येति विग्रहः। `सास्य देवते'त्यण्। ततो जाताविति। ततो=`ब्राआहृ' इति सूत्रात्पृथगेव, जाताविति सूत्रं कर्तव्यमित्यर्थः। इह `न मपूर्वोऽपत्येऽवर्मणः' इति सूत्रादपत्ये इति, `प्रकृत्यैका'जित्यतः प्रकृत्येति चानुवर्तते। तदाह–अपत्ये जाताविति। ब्राआहृण इति। ब्राहृणः सकाशात्सजातीयायां भार्यायामुत्पन्न इत्यर्थः। योगविभागस्त्वयं भाष्ये स्पष्टः।

तत्त्वबोधिनी

950 ब्राआहृओ जातौ। योगविभागोऽत्रेति। एकयोगत्वे त्वारम्भसामथ्र्यादनपत्ये जातौ `ब्राआहृई'त्यात्राऽप्राप्तटिलोपसिद्धावपि `ब्राआहृण'इति न सिद्ध्?येत्। `अन्'इति प्रकृतिभावस्य `न मपूर्वोऽपत्ये'इति निषेधाट्टिलोपस्य दुर्वारत्वात्। किंच अजातौ ब्राआहृमित्यादि न सिद्ध्येत्, `अन्' इति प्रकृतिभावस्य दुर्वारत्वादिति भावः#ः। ब्राआहृ इति। इह `अपत्ये'इति न संबध्यते, अन्यथा निपातनमिदं व्यर्थं स्यात्, `न मपूर्वे'ति प्रकृतिभावनिषेधाट्टिलोपसिद्धेरित्याशयेनाह—अनपत्येऽणीति। ब्राआहृमिति। `ब्राआहृओ मुहूर्तः', `ब्राआहृऋ स्थालीपाकः'इत्याद्यप्युदाहरणम्। नन्वेवमपि ब्राआहृणो न सिध्यति, `न मपूर्वः'इति प्रकृतिबावनिषेधादपत्येऽणि `नस्तद्धिते'इति टिलोपप्रवृत्तरत आह—जाताविति। इह मण्डूकप्लुत्या `अपत्ये'इत्यनुवर्तते, `न' इति च। तदेतदाह—अपत्ये जातावित्यादिना। अयमत्रार्थः– `अपत्ये जातौ ब्राआहृणशब्दे टिलोपो न भवती'ति। केचिदिह `अजातौ'इति छित्त्वा `जातौ न भवती'ति व्याचक्षते। तस्मिस्तु व्याख्याने `ने'ति नानुवर्तनीयम्। जातौ किम्?। ब्राआहृओ नारदः।

Satishji's सूत्र-सूचिः

TBD.