TBD.
गाथिन् विदथिन् केशिन् गणिन् पणिनित्येते च अणि प्रकृत्या भवन्ति। गाथिनः अपत्यं गाथिनः। वैदथिनः। कैशिनः। गाणिनः। पाणिनः। अपत्यार्थो ऽयम् आरम्भः।
TBD.
–
1256 गाथिविदथि। `इनण्यनपत्ये' इत्यतोऽणीत्यनुवर्तते। `प्रकृत्यैका'जित्यतः प्रकृत्येति च। तदाह–एतेऽणि प्रकृत्या स्युरिति। गाथिन्, विदथिन्, केशिन्, गणिन्, पणिन्-एते इत्यर्थः। अपत्येऽप्यणि प्रकृतिभावार्थमिदम्। ततो यून्यपत्ये इति। मूलप्रकृतिपणी। तदपेक्षया चतुर्थेऽपत्ये यूनि विवक्षिते पाणिनशब्दाद्गोत्राऽणन्तादत इञि पाणिनिरिति रूपमित्यर्थः। पाणिन शब्दस्य अनन्तरापत्यप्रत्ययान्तत्वे तु ततोऽनन्तरापत्ये मूलप्रकृतिपण्यपेक्षया तृतीये गोत्रापत्ये इञ्न संभवति, `एको गोत्रे' इति नियमात्। नापि मूलप्रकृत्यपेक्षया चतुर्थाऽपत्ये यूनि पाणिनशब्दादनन्तरापत्यप्रत्ययान्तादिञ्संभवति, `गोत्राद्यून्यस्त्रिया'मिति यून्यपत्ये गोत्रप्रत्ययान्तादेवाऽपत्यप्रत्ययनियमात्। अतो गोत्राऽण्प्रत्ययान्तात्पाणिनशब्दाद्यूनि इञ्प्रत्यय इत्युक्तमिति बोध्यम्।
1020 गाथिविदथि। `इनण्यनपत्ये'इति सिद्धे अपत्येऽप्यणि प्रकृतिभावार्थमयमारम्भः। गाथिनः। वैदथिनः। कैशिनः। गाणिनः। पाणिनः।
TBD.