Table of Contents

<<6-4-158 —- 6-4-160>>

6-4-159 इष्ठस्य यिट् च

प्रथमावृत्तिः

TBD.

काशिका

बहोरुत्तरस्य इष्ठस्य यिडागमो भवति, बहोश्च भूरादेशो भवति। भूयिष्ठः। लोपापवादो यिडागमः, तस्मिन्निकार उच्चारणार्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1231 बहोः परस्य इष्ठस्य लोपः स्याद् यिडागमश्च. भूयिष्ठः..

बालमनोरमा

इष्ठस्य यिट् च। लोपः स्यादिति। `आदेः परस्ये'ति बोध्यम्। यिटि टकार इत्। इष्ठस्यादिलोपे कृते यिडागमः। ट इत्। टित्त्वात्प्रत्ययस्याद्यवयवः। बहोर्भूभावस्तु पूर्वसूत्रेण सिद्ध एव। यदि तु लोप इति निवृत्तं तदा यकार आगम इति भाष्यम्।

तत्त्वबोधिनी

1509 इष्ठस्य यिट् च। पूर्वसूत्रं संपूर्णमनुवर्तते। तदाह—बहोरित्यादि। `भूरादेशश्चे'त्यपि ज्ञातव्यम्। भूयिष्ठ इति। अत्र इष्ठस्याऽऽजिलोपे कृते यिशब्द आगमः। यद्वा लोपापवादो यकार आगमः। इकारस्तूच्चारणार्थः। पक्षद्वयमपीदं भाष्यारूढम्।

Satishji's सूत्र-सूचिः

TBD.