Table of Contents

<<6-4-157 —- 6-4-159>>

6-4-158 बहोर् लोपो भू च बहोः

प्रथमावृत्तिः

TBD.

काशिका

बहोरुत्तरेषाम् इष्थेमेयसां लोपो भवति, तस्य च बहोः स्थाने भू इत्ययम् आदेशो भवति। भूमा। भूयान्। बहुशब्दः पृथ्वादिषु पठ्यते। बहोरिति पुनर्ग्रहणं स्थानित्वप्रतिपत्त्यर्थम्, अन्यथा हि प्रत्ययानाम् एव भूभावः स्यात्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1230 बहोः परयोरिमेयसोर्लोपः स्याद्बहोश्च भूरादेशः. भूमा. भूयान्..

बालमनोरमा

बहोर्लोपः। `भू' इति लुप्तप्रथमाकम्। इष्ठेयमेयस्स्वित्यनुवृत्तम्। तत्र इष्ठन उत्तरसूत्रे कार्यान्तरविधानादिह तस्य न संबन्धः। तदाह–बहोः परयोरिति। `आदेः परस्ये'ति प्रत्ययोरादिलोपः। भूमेति। बहुत्वमित्यर्थः। बहुशब्दात्पृथ्वादिमनिचि प्रकृतेर्भूभावः, प्रत्ययादैरिकारस्य लोपश्च भूयानिति। अयमनयोरतिशयेन बहुरित्यर्थः। वैपुल्यवाचकाद्बहुशब्दादीयसुनि प्रकृतेर्भभावः, प्रत्ययादेरिकारस्य लोपश्च। भूभावस्याभीयत्वेना।ञसिद्धत्वादोर्गुणो न भवति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.