Table of Contents

<<6-4-125 —- 6-4-127>>

6-4-126 न शसददवादिगुणानाम्

प्रथमावृत्तिः

TBD.

काशिका

शस दद इत्येतयोः वकारादीनां च धातूनां गुण इत्येवम् अभिनिर्वृत्तस्य च यो ऽकारः तस्य स्थाने एकारादेशो न भवति, अभ्यासलोपश्च। विशशसतुः। विशशसुः। विशशसिथ। दददे, दददाते, ददरिरे। वादीनाम् ववमतुः। ववमुः। ववमिथ। गुणस्य विशशरतुः। विशशरुः। विशशरिथ। लुलविथ। पुपविथ। गुणशब्दाभिनिर्वृत्तस्य अर्शब्दस्य ओकारस्य च अयम् अकारः इति एत्वं प्रतिषिध्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

543 शसेर्ददेर्वकारादीनां गुणशब्देन विहितो योऽकारस्तस्य एत्त्वाभ्यासलोपौ न. दददे. दददाते. दददिरे. ददिता. ददिष्यते. ददताम्. अददत. ददेत. ददिषीष्ट. अददिष्ट. अददिष्यत.. त्रपूष् लज्जायाम्.. 20.. त्रपते..

बालमनोरमा

107 न शसदद। शस दद वादि गुण–एषां द्वन्द्वः। अवयवषष्ठी। गुणशब्देन विहित एव गुणोऽत्र गुणशब्देन विहितत्वाऽभावान्नायं निषेधः। पृ?धातोः पपरतुरिति तु गुणस्योदाहरणम्, गुणशब्देन विहितो योऽर् तदवयवत्वादकारस्येति बोध्यम्। ददद इति। ददेर्लिटस्तादेशस्य एशि द्वित्वे `अत एकहल्मध्ये' इति प्राप्तावेत्तवाभ्यासलोपौ न भवतः। ष्वद स्वर्देति। आस्वादनम्–अनुभवः। प्रीतिविषयीभावात्मिका रुचिर्वा। तदाह- - अयमिति। प्रत्येकाभिप्रायमेकवचनम्।

तत्त्वबोधिनी

82 न शसदद। `शसु हिंसायां' दन्त्यान्तः। सूत्रेऽवयवावयवभावः षष्ठ\उfffद्र्थः। तथा च शसददवादीनां योऽकार इत्यन्वयसंभवेऽपि अकारस्य गुणरूपत्वाद्भेदनिबन्धना षष्ठी न संभवतीत्याशङ्क्य तन्निर्वाहार्थं व्याचष्टे– गुणशब्देन भावितस्येति। भावितत्वं च साक्षात्पेरम्परासाधारणम्। तथा च शशरतुः पपरतुरित्यादौ गुणशब्देन क्रियमाणो योऽर् तदवयवोऽकारः। लुलविथेत्यादौ तु गुणशब्देन क्रियमाणो य ओकारस्तत्स्थानिकस्याऽवादेशस्यावयवोऽकार इत्यर्थान्नास्त्यत्रानुपपत्तिः। दददे इति। शशसतुः। शशसुः। ववमतुः। ववमुरित्यादावपि निषेधो बोध्यः। ष्वद स्वर्द। अयमिति। प्रत्येकाभिप्रायेणोक्तमित्याहु। सकर्मक इति। स्वदस्व हव्यानि। अनुभवेत्यर्थः। अकर्मक इति। `अपां हि तृप्ताय न वारिधारा स्वादुः सुगन्धिः स्वदते तुषारा'- इति श्रीहर्षः। न स्वदते। न रोचत इत्यर्थः।

Satishji's सूत्र-सूचिः

वृत्तिः शसेर्ददेर्वकारादीनां गुणशब्देन विहितो योऽकारस्तस्य एत्त्वाभ्यासलोपौ न। A अकार: which is prescribed using the term “गुण” and the अकार: of the verbal roots √शस् (शसुँ हिंसायाम् १. ८२८), √दद् (ददँ दाने १. १७) as well as that of a verbal root beginning with a वकार: shall not be subject to the operations (एत्वम्, अभ्यासलोप:) prescribed by 6-4-120.

उदाहरणम् – ववमु: (टुवमँ उद्गिरणे १. ९८४, लिँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्)।