Table of Contents

<<6-4-124 —- 6-4-126>>

6-4-125 फणां च सप्तानाम्

प्रथमावृत्तिः

TBD.

काशिका

फणादीनां सप्तानां धातूनाम् अवर्णस्य स्थाने वा एकार आदेशो भवति, अभ्यासलोपश्च लिटि क्ङिति परतः थलि च सेटि। फेणतुः। फेणुः। फेणिथ। पफणतुः। पफणुः। पफणिथ। रेजतुः। रेजुः। रेजिथ। रराजतुः। रराजुः। रराजिथ। भ्रेजे, भ्रेजाते, भ्रेजिरे। बभ्राजे, बभ्राजाते, बभ्राजिरे। भ्रेशे, भ्रेशाते, भ्रेशिरे। बभ्राशे, बभ्राशाते, बभ्राशिरे। भ्लेशे, भ्लेशाते, भ्लेशिरे। बभ्लाशे, बभ्लाशाते, बभ्लाशिरे। स्येमतुः। स्येमुः। स्येमिथ। सस्यमतुः। सस्यमुः। सस्यमिथ। स्वेनतुः। स्वेनुः। स्वेनिथ। सस्वनतुः। सस्वनुः। सस्वनिथ। सप्तानाम् इति किम्? दघ्बनतुः। दध्बनुः। दध्वनिथ।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

164 फण गतौ। फणति। लुङि। अफाणीत्। अफणीत्। णौ तु `चिण्णमुलो'रिति वा दीर्घः। अफणि। अफाणि। फणंफणम्। फाणंफाणम्। असंभवादिति। मित्त्वप्रा\उfffद्प्त विना निषेधाऽसंभवादिह `ने'त्येतन्न संबध्यते किंतु मित्संज्ञैव। तदेतदाह– फणयति। (ग) वृत्। वृत्। सामथ्र्यादिति। फणादिषु पाठसामथ्र्यादित्यर्थः। तत्र हीति। षत्वविधौ हीत्यर्थः। तथा च विभ्राट्। विभ्राड्भ्याम्। पूर्वं पठितस्य तु विभ्राक् विभ्राग्भ्यामित्यादि सिध्यतीति भावः। अस्यमीदिति। मान्तत्वान्न वृद्धिः। अथ ज्वलादिः। अज्वालीदिति। `अतो ल्रान्तस्ये'ति वृद्धिः। वैक्लव्य इति। वैक्लव्यं - - भयादिजनितोद्विग्नता। तद्वयापार इति। बन्धुतानुकूलो व्यापारः।

Satishji's सूत्र-सूचिः

TBD.