Table of Contents

<<6-4-120 —- 6-4-122>>

6-4-121 थलि च सेति

प्रथमावृत्तिः

TBD.

काशिका

थलि च सेटि परतो ऽनादेशादेः अङ्गस्य एकहल्मध्यगतस्य अतः स्थाने एकार आदेशो भवति, अभ्यासलोपश्च। पेचिथ। शेकिथ। सेटि इति किम्? पपक्थ। थल्ग्रहणं विस्पष्टार्थम्। अक्ङिदर्थम् एतद् वचनम् इति अन्यस्येटो ऽसम्भवात्। अतः इत्येव, दिदेविथ। एकहल्मध्यगतस्य इत्येव, ततक्षिथ। ररक्षिथ। अनादेशादेरित्येव, चकणिथ। बभणिथ।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

463 प्रागुक्तं स्यात्. नेदिथ. नेदथुः. नेद. ननाद, ननद. नेदिव. नेदिम. नदिता. नदिष्यति. नदतु. अनदत्. नदेत्. नद्यात्. अनादीत्, अनदीत्. अनदिष्यत्.. टु नदि समृद्धौ.. 8..

बालमनोरमा

105 थलि च। प्रागुक्तमिति। एकहल्मध्य इति यत्प्रागुक्तम्– एत्वादि, तत्सेटिथलि च स्यादित्यर्थः। थलः कित्त्वाऽभावात्पूर्वसूत्रेणाऽप्राप्तौ वचनम्। ननु देधे पेततुरित्यादौ `अभ्यासे चर्चे'ति जशां चरां च जशि चरि च लिण्निमित्तादेशादित्वात्कथमेत्वाभ्यासलोपावित्यत आह—-आदेशश्चहेति। इह = `अत एकहल्मध्ये' इति सूत्रे, आदेशशब्देन स्थान्यपेक्षया विरूप एवादेशो विवक्षितः। तथा च तथाविधादेशादेरेव एत्त्वाभ्यासलोपौ न भवतः, स्थानिसरूपादेशास्तु न पर्युदास इत्यर्थः। शसिदद्योरिति। `न शसददवादिगुणाना'मिति शसिदद्योरेत्वाभ्यासलोपयोः प्रतिषेध उच्यते। यदीह यथाकतंचिदादेशादेः पर्युदासः स्यात्तर्हि शसिदद्योरभ्यासे शकारदकारयोश्चर्?जशोः शकारदकारादेशे सति आदेशादित्वादेव एत्वाभ्यासलोपयोरभावसिद्धौ `न शसददवे'ति तत्प्रतिषेधोऽनर्थकः स्यात्। अतो वैरूप्यसंपादकादेशादेरेव पर्युदासो विज्ञायत इत्यर्थः। तेनेति। स्थानिसरूपादेशादेः पर्युदासाऽभावादित्यनेनेत्यर्थः। सत्स्वपीति। देधे पेततुरित्यादौ दकाराद्यादेशेषु सत्स्वपीत्यर्थः। देधे इति। दध् दध् ए इति स्थिते दकारादकारस्य एत्त्वेऽभ्यासलोपे च रूपम्। `असंयोगाल्लिट्क'दिति कित्त्वमिह बोध्यम्। देधिर इति। देधिषे देधाथे देधिध्वे। देधे देधिवहे देधिमहे इति रूपाणि संभवन्तीति भावः। दिदिवतुरिति। दिव्धातोरतुसि द्वित्त्वे हलोर्मध्येऽतोभावादेत्त्वाभ्यासलोपौ नेति भावः। तत्परः किमिति। `अत' इति तपरकरणं किमर्थमित्यर्थ-। ररासे इति। `रासृ शब्दे' भ्वादिरात्मनेपदी। अत्र हल्मध्यस्थस्येति किमर्थमित्यर्थः। तत्सरतुरिति। `त्सर च्छद्मगतौ'। लिटोऽतुसि द्वित्वे अभ्यासाऽकारस्य नाऽसंयुक्तहल्मध्यस्थत्वमिति भावः। चकणतुरिति। `कण शब्दे' लिटोऽतुसि द्वित्वे कुहोश्चुरिति ककारस्य चुत्वेन चकारः। तथा च वैरूप्यसंपादकादेशादित्वादेत्त्वाभ्यासलोपौ नेति भावः। अथ `लिण्निमित्तादेशादिक'मित्यत्र लिण्निमित्तेत्यस्य प्रयोजनमाह–लिटेति। नेमिथेति। `णमु प्रह्वत्वे शब्दे च'। `णो नः' इति नत्वम्। थलि इटि द्वित्वे नत्वसंपन्ननकारादेशादित्वेऽपि नत्वस्य लिण्निमित्तकत्वाऽभावाल्लिण्निमित्तकादेशादित्वाऽभावादेत्त्वाभ्यासलोपौ निर्बाधाविति भावः। सेहे इति। `षह मर्षणे'। `धात्वादेः षः सः' इति सत्वे लिटि द्वित्वे सत्वसंपन्नसकारादेशादित्वेऽपि सत्वस्य लिण्निमित्तकत्वाऽभावाल्लिण्निमित्तकादेशादित्वविरहादेत्त्वाभ्यासलोपा निर्बाधाविति भावः। दधिता। दधिष्यते। दधताम्। अदधत। दधेत। दधिषीष्ट। अदधिष्ट। अदधिष्यत। स्कुदीति। उत्प्लवनमुत्प्लुत्य गमनम्।

तत्त्वबोधिनी

80 चकणतुरिति। न चैवमपि बभणतुरित्यत्र `अभ्यासे चर्चे'त्यस्याऽलसिद्धत्वादेत्वाभ्यासलोपौ स्त एवेति वाच्यं, फलभजग्रहणेन एत्वविधिं प्रति तत्सूत्रस्य सिद्धत्वज्ञापनात्। एवं चादेशश्चेह वैरूप्यसंपादक एव गृह्रते इति व्याख्यानमवश्यं कर्तव्यमवेति दिक्।

Satishji's सूत्र-सूचिः

TBD.