TBD.
लिटि परत आदेशः आदिर् यस्य अङ्गस्य न अस्ति तस्य एकहल्मध्ये असहाययोर् हलोर् मध्ये यो ऽकारस् तस्य एकारादेशो भवति, अभ्यासलोपः च लिटि क्ङिति परतः। रेणतुः। रेणुः। येमतुः। येमुः। पेचतुः। पेचुः। देमतुः। देमुः। अतः इति किम्? दिदिवतुः। दिदिवुः। तपरकरणं किम्? ररासे, ररासाते, ररासिरे। एकहल्मध्ये इति किम्? शश्रमतुः। शश्रमुः। तत्सरतुः। तत्सरुः। अनादेशादेः इति किम्? चकणतुः। चकणुः। जगणतुः। जगणुः। बभणतुः। बभणुः। लिटः आदेशविशेषणं किम्? इह अपि यथा स्यात्, नेमतुः। नेमुः। सेहे, सेहाते, सेहिरे। अनैमित्तिके नत्वसत्वे, तदादिर् लिटि आदेशादिर्न भवति। इह अभ्यासजश्त्वचर्त्वयोरसिद्धत्वं नास्ति, तेन तदादिरप्यादेशादिर् भवति। तथा च फलिभजोरेत्वं विधीयते। रूपाभेदे चादेशादिर् न अश्रीयते इति शसिदद्योः प्रतिषेधवचनं ज्ञापकम्। अन्यथा हि पेचतुः, पेचुः, देमतुः, देमुः इत्येवम् आदीनाम् अपि प्रकृतिजश्चरादीनाम् एत्वं न स्यात्। क्ङिति इत्येव, अहं पपच। अहं पपठ। दम्भेरेत्वं वक्तव्यम्। देभतुः। देभुः। नलोपस्य असिद्धत्वान् न प्राप्नोति। नशिमन्योरलिट्येत्वं वक्तव्यम्। अनेशम्। मेनका। अनेशम् इति नशेः लुङि पुषादित्वादङ्। मेनका इति मनेः आशिषि च 3-1-150 इति वुन्। क्षिपकादिषु प्रक्षेपादित्वं न क्रियते। छन्दस्यमिपचोरप्यलिट्येत्वं वक्तव्यम्। व्येमानम्। अमेर्विपूर्वस्य चानशि मुक् न क्रियते। लिङिपेचिरन्। पचेरनित्येतस्य छान्दसं ह्रस्वत्वम्। यजिवप्योश्च। आयेजे। आवेपे। लङि इटि छन्दस्यपि दृश्यते 6-4-73 इति अनजादेरपि इडागमः।
TBD.
462 लिण्निमित्तादेशादिकं न भवति यदङ्गं तदवयवस्यासंयुक्तहल्मध्यस्थस्यात एत्वमभ्यासलोपश्च किति लिटि. नेदतुः. नेदुः..
105 तस्य लटि एधिवद्रूपाणि सिद्धवत्कृत्य लिटस्तादेशे तस्यैशि द्वित्वे दध् दध् ए इति स्थिते। अत एकहलमध्ये। आदेश आदिर्यस्येति बहुव्रीहिः। अङ्गस्येत्यधिकृतमन्यपदार्थः। लिटीति निमित्तसप्तमी अनादेशादेरित्यस्यैकदेशे आदेशेऽन्वेति। लिटि परे निमित्ते य आदेशः स आदिर्यस्य न भवति तथाविधस्याङ्गस्येति लभ्यते। अङ्गस्येत्यवयवषष्ठी। तथा च तथाविधाङ्गावयवस्याऽत इति लभ्यते। एकशब्दोऽसहायवाची। `एके मुख्यान्यकेवलाः' इत्यमरः। एकौ असंयुक्तौ हलौ एकहलौ, तयोर्मध्यः,तत्रेति विग्रहः। `अत' इत्स्यैव विशेषणमिदम्। `द्वसोरेद्धा'वित्यत एदिति, अभ्यासलोप इति चानुवर्तते। `गमहने'त्यतः कितीत्यनुवर्तते, न तु ङितीति, लिङादेशानां ङित्त्वाऽसंभवात्। लिटीत्येत्वविधौ परनिमित्तं च। आवृत्त्या उभयार्थलाभः। तदाह— लिण्निमित्तेत्यादिना।
79 लिण्निमित्तेति। किति लिटीति च। यद्यपि `गहमने'ति सूत्रे क्ङितीति वर्तते, तथापि प्रयोजनाऽभावान्ङितीत्येतन्नानुवर्तत इति भावः। किति कित् ?। ननाद। लिटि किम?। पापच्यात्।
वृत्तिः लिण्निमित्तादेशादिकं न भवति यदङ्गं तदवयवस्यासंयुक्तहल्मध्यस्थस्यात एत्वमभ्यासलोपश्च किति लिटि। The अकार: of a अङ्गम् takes एकार: as the substitute and simultaneously there is लोप: (elision) of the अभ्यास:, when all the following conditions are satisfied:
(i) the अकार: is preceded and followed by a single (non-conjunct) consonant
(ii) the अङ्गम् is followed by a लिँट् affix which is कित्
(iii) in place of the first letter of the अङ्गम् there is no आदेश: (substitution) that is based on the लिँट् affix.
उदाहरणम् – पेतु: (पतॢँ गतौ १. ९७९, लिँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्)।
पत् + लिँट् 3-2-115
= पत् + ल् 1-3-2, 1-3-3, 1-3-9
= पत् + झि 3-4-78, 1-3-12, 1-4-100, 1-4-101, 1-4-102, 1-4-105
= पत् + उस् 3-4-82. 1-3-4 prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा।
= पत् पत् + उस् 6-1-8
= प पत् + उस् 7-4-60
= पेत् + उस् 6-4-120. Note: As per 1-2-5 “उस्” is कित् here. This allows 6-4-120 to apply.
= पेतु: 8-2-66, 8-3-15