Table of Contents

<<6-3-97 —- 6-3-99>>

6-3-98 ऊदनोर् देशे

प्रथमावृत्तिः

TBD.

काशिका

अनोरुत्तरस्य अपः ऊकारादेशो भवति देशाभिधाने। अनूपो देशः। देशे इति किम्? अन्वीपम्। दीर्घोच्चारणम् अवग्रहार्थम्, अनु ऊपः अनूपः इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

929 ऊदनोर्देशे। ईत्त्वस्याऽपवादः। ऊत्स्यादिति। `आदेः परस्ये'ति ज्ञेयम्। अनूपो देश इति। अनुकूला आपो यस्मिन्निति विग्रहः। अप्रत्ययः, ऊत्त्वं सवर्णदीर्घश्च। `अनूप' इत्यत्र ऊपोऽवग्रहणार्थं दीर्घोच्चारणमिति भाष्यम्। बह्वृचास्तु `अनूपो गोमान्'रित्यत्र नावगृह्णन्ति। तदेव `ऋक्पूः' इति सूत्रगतोऽप्शब्दः प्रपञ्चितः। अथ धूर्शब्दान्तस्योदाहरति–राजधुरेति। राज्ञो धूरिति विग्रहः। धूर्शब्दोऽत्र राज्ये लाक्षणिकः। अकारप्रत्ययः। `परवल्लिङ्ग'मिति स्त्रीत्वम्। टाप्। अक्षे त्विति। अक्षसंबन्धिनी या धूस्तदन्तादकारप्रत्ययो न। अक्षधूरिति। अक्षो नाम रथावयवदण्डविशेषः, यदग्रयोश्चक्रे आसज्येते तस्याक्षस्याग्रं धूः। अनेन `अक्षे समासार्थे धुरो नाऽकारप्रत्ययः' इति व्याख्यानेऽत्र निषेधो न स्यादिति सूचितम्। दृढधूरक्ष इति। दृढा धूर्यस्येति विग्रहः। एतेनाऽक्षे पूर्वपदे धुरो नाकारप्रत्यय इति व्याख्याने अत्र निषेधो न स्यादिति सूचितम्। तदेवं `ऋक्पू'रिति सूत्रं धूःशब्दः प्रपञ्चितः। अथ पथिन्शब्दस्योदाहरति–सखिपथाविति। सखा च पन्थाश्चेति द्वन्द्वः। अकारप्रत्ययः। `नस्तद्धिते' इति टिलोपः। `सखिपथ' इति पाठे तु सख्युः पन्था इति तत्पुरुषः। रम्यपथ इति। रम्यः पन्था यस्येति विग्रहः।

तत्त्वबोधिनी

805 ऊदनोः। दीर्घोच्चारणं क्वचिच्छाखायामवग्रहार्थम्। बह्वृचास्तु `अनूपे गोमान् गोभिः'इत्यत्रा नूपशब्दं नावगृह्णन्ति। अनूप इति। अनुगता आपोऽस्मिन्नित्यनूपो देशः। `जलप्रायमनूपं स्य'दित्यमरः।

Satishji's सूत्र-सूचिः

TBD.