Table of Contents

<<6-3-96 —- 6-3-98>>

6-3-97 द्व्यन्तरुपसर्गेभ्यो ऽप ईत्

प्रथमावृत्तिः

TBD.

काशिका

द्वि अन्तरित्येताभ्यां उपसर्गाच् च उत्तरस्य अपित्येतस्य ईकारादेशो भवति। द्वीपम्। अन्तरीपम्। उपसर्गात् नीपम्। वीपम्। समीपम्। समाप ईत्वे प्रतिशेधो वक्तव्यः। समापं नाम देवयजनम्। अपर आह ईत्वमनवर्णादिति वक्तव्यम्। इह मा भूत्, प्रापम्, परापम्। अप्शब्दं प्रति क्रिययोगाभावातुपसर्गग्रहणं प्राद्युपलक्षणार्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

928 द्व्यन्तरुप। कृतसमासान्तस्येति। अकारप्रत्ययान्तस्येत्यर्थः। एभ्य इति। द्वि अन्तर् उपसर्ग-एतेभ्य इत्यर्थः। अपस्येति। अकारप्रत्ययान्तस्याऽप्शब्दस्येत्यर्थः। ईत्स्यादिति। `आदेः परस्ये'ति परिभाषया आदेरकारस्येत्यर्थः। द्वयोर्गता इति। द्वयोः पार्?सयोर्गता आपो यस्मिन्निति विग्रहः। व्यधिकरणपदो बहुव्रीहिः। अकारप्रत्ययः,ईत्त्वं, सवर्णदीर्घश्च। अन्तरीपमिति। अन्तर्गता आपो यस्मिन्निति विग्रहः। प्तीपमिति। प्रतिकूला आपो यस्मिन्निति विग्रहः। उपसर्गात्परत्वादीत्त्वम्। समीपमिति। सङ्गता आपो यस्मिन्निति विग्रहः। उपसर्गात्परस्योदाहरणान्तरमिदम्। समापो देवयजनमिति। श्रुतिरेषा। अत्र उपसर्गात्परत्वाऽभावादीत्त्वं नेति भावः। देवा इज्यन्ते यस्मिन्निति देवयजनं यज्ञभूमिः। `समाप' इति पुंस्त्वं छान्दसम्। भाष्ये तु `समाप ईत्त्वं ने'त्युक्त्वा समापं नाम देवयजनमित्युदाह्मतम्। तत्र समापशब्दो देवयजनविशेषवाच्येव विवक्षितः, `समीपसमृद्धी'ति निर्देशात्, `समीप'मिति भाष्ये उदाहरणाच्च। स्वविति। शोभना आपो यस्येति विग्रहः। `न पूजना'दिति समासान्तनिषेधः। अकृतसमासान्तत्वादीत्त्वं न। स्वपी इति। प्रथम#आद्विवचनमिदम्। अवर्णान्ताद्वेति। अवर्णान्तादुपसर्गात्परस्याऽपस्य ईत्त्वं वा वक्तव्यमित्यर्थः। प्रेपं प्रापमिति। प्रगता आपो यस्येति विग्रहः। परेपं परापमिति। परागता आपो यस्येति विग्रहः।

तत्त्वबोधिनी

804 कृतसमासान्तस्येति। `येन विधि'रिति सूत्रे `आपस्तिष्टन्ति स्वापस्तिष्ठन्ती'ति भाष्यादिति भावः। अन्तरीपमित्यादि। अन्तर्गताः, प्रतिकूलाः, सङ्गताश्चपो अस्मिन्निति विग्रहः। उपसर्गग्रहणं प्रादेरुपलक्षणार्थम्। समाप इति। अनुपसर्गत्वान्नेत्वमिति भावः। भाष्ये तु `समाप ईत्वप्रतिषेधो वक्तव्यः'इत्युक्तम्। स च देवयजनरूपविशेषार्थपरः `समीपसमृद्धी'ति निर्देशात्, `समीपे'मिति भाष्योदाहरणाच्चेति ज्ञेयम्। देवयजनमिति। देवा इज्यन्ते अस्मिन्निति व्युत्पत्त्या यज्ञभूमिः। स्वबिति। `न पूजना'दिति समासान्ताऽभावः।\र्\नवर्णान्ताद्वा। अवर्णान्ताद्वेति। `व्द्यन्त'रिति सूत्रे `ईत्वमनवर्णा'दिति वक्तव्यम्। इह माभूत् `प्रापं पराप'मिति भाष्योक्तेः, `गतिश्चे'ति सूत्रे `प्रेपं परेप'मिति भाष्योक्तेश्चेति भावः।

Satishji's सूत्र-सूचिः

TBD.