दुगाशीराशाऽअस्थाऽअस्थितौत्सुकौउतिकारकरागच्छेषु
TBD.
अषष्थीस्थस्य अतृतीयास्थस्य च अन्यशब्दस्य दुगागमो भवति आशिसाशा आस्था आस्थित उत्सुक ऊति कारक राग छ इत्येतेषु परतः। अन्या आशीः अन्यदाशीः। अन्या आशा अन्यदाशा। अन्या आस्था अन्यदास्था। अन्य आस्थितः अन्यदास्थितः। अन्य उत्सुकः अन्यदुत्सुकः। अन्या ऊतिः अन्यदूतिः। अन्यः कारकः अन्यत्कारकः। अन्यः रागः अन्यद्रागः। अन्यस्मिन् भवः अन्यदीयः। गहादिष्वन्यशब्दो द्रष्टव्यः। अषष्ठ्यतृतीयास्थस्य इति किम्? अन्यस्य आशीः अन्याशीः। अन्येन आस्थितः अन्यास्थितः। दुगागमो ऽविशेषेण वक्तव्यः कारकच्छयोः। षष्ठीतृतीययोर् नेष्ट आशीरादिषु सप्तसु। अन्यस्य कारकम् अन्यत्कारकम्। अन्यस्य इदम् अन्यदीयम्। अस्य च द्विर्नञ्ग्रहणं लिङ्गम्।
TBD.
–
1010 अषठ\उfffद्तृतीयास्थस्य। अषष्ठ\उfffदामतृतीयायां च परतस्तिष्ठतीति अषष्ठ\उfffद्तृतीयास्थः, तस्य। अषष्ठीतृतीयान्तस्येत्यर्थः। `अषष्ठीतृतीयास्थस्ये'त्येव सिद्धे नञ्द्वयोपादानं स्पष्टार्थंम्। आशीरादिष्विति। आशीः, आशा, आस्था, आस्थित, उत्सुक, ऊति, कारक, राग, छ-इत्येतेषु इत्यर्थः। दुकि ककार इत्। उकार उच्चारणार्थः। कित्त्वादन्तावयवः। अन्यदाशीरित्यादयः कर्मधारयाः। नायं निषेध इति। `अषष्ठ\उfffद्तृतीयास्थस्ये'ति निषेधः कारकच्छयोर्नास्तीत्यर्थः। भाष्योक्तमिदम्।
857 अषष्ठ\उfffद्। अन्यदाशीरित्यादयः कर्मधारयाः। नायं निषेध इति। एतच्च `अषष्ठी तृतीयास्थस्ये'त्येव सिद्धे निषेधाऽनित्यत्वज्ञापनार्थाद्द्विर्नञ उपादानाल्लभ्यत इत्याहुः। चेति। अनजाद्यर्थमिदं वार्तिकं, `कत्त्र्यादिभ्यो ढकञि'ति निर्देशेनैव सिद्धम्।
TBD.